Ṛgveda · Maṇḍala 8 · Sūkta 16

Ṛk 8.16.12

Indra · Irimbiṭhi Kāṇva

The whole sūkta Link

Saṃhitā

स त्वं न॑ इंद्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।
अच्छा॑ च नः सु॒म्नं ने॑षि ॥

स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च |
अच्छा च नः सुम्नं नेषि ||

sá tvám na indra vā́jebhirdaśasyā́ ca gātuyā́ ca ǀ
ácchā ca naḥ sumnám neṣi ǁ

sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca |
acchā ca naḥ sumnaṃ neṣi ||

Padapāṭha

सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ ।
अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥

सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च ।
अच्छ । च । नः । सुम्नम् । नेषि ॥

sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ vā́jebhiḥ ǀ daśasyá ǀ ca ǀ gātu-yá ǀ ca ǀ
áccha ǀ ca ǀ naḥ ǀ sumnám ǀ neṣi ǁ

saḥ ǀ tvam ǀ naḥ ǀ indra ǀ vājebhiḥ ǀ daśasya ǀ ca ǀ gātu-ya ǀ ca ǀ
accha ǀ ca ǀ naḥ ǀ sumnam ǀ neṣi ǁ

References

Maṇḍala · Sūkta · Ṛk
08.016.12
Aṣṭaka · Adhyāya · Varga · Ṛk
6.1.21.06
Maṇḍala · Anuvāka · Ṛk
08.03.073
Devatā देवता
Indra
Ṛṣi ऋषि
Irimbiṭhi Kāṇva
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.16.12

Interpretations

Sāyaṇa

आयाहीति पंचदशर्चं पञ्चमं सूक्तम् इरिंबिठेरार्षमैन्द्रं चतुर्दशीबृहती पञ्चदशीसतोबृहती आदितस्त्रयोदशगायत्र्यः । अनुक्रम्यतेहि-आयाहिपंचोना प्रगाथांतमिति । अन्त्यंप्रगाथं वर्जयित्वा शिष्टस्य महाव्रतेउक्तोविनियोगः । ज्योतिष्टोमे प्रातःसवने ब्रह्मशस्त्रे आद्याःषळृचः स्तोत्रियानुरूपावन्त- राःसप्तेति । चातुर्विंशिकेहनि प्रातःसवने आद्यस्तुचोस्मिन्नेवशस्त्रे षळहस्तोत्रियसंज्ञकआवापार्थः सूत्रितञ्च-आयाहिसुषुमाहितइन्द्रमिद्गाथिनोबृह- दिति ।