Ṛk 8.12.12
Saṃhitā
स॒निर्मि॒त्रस्य॑ पप्रथ॒ इंद्रः॒ सोम॑स्य पी॒तये॑ ।
प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥
सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये |
प्राची वाशीव सुन्वते मिमीत इत् ||
sanírmitrásya papratha índraḥ sómasya pītáye ǀ
prā́cī vā́śīva sunvaté mímīta ít ǁ
sanir mitrasya papratha indraḥ somasya pītaye |
prācī vāśīva sunvate mimīta it ||
Padapāṭha
स॒निः । मि॒त्रस्य॑ । प॒प्र॒थे॒ । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ ।
प्राची॑ । वाशी॑ऽइव । सु॒न्व॒ते । मिमी॑ते । इत् ॥
सनिः । मित्रस्य । पप्रथे । इन्द्रः । सोमस्य । पीतये ।
प्राची । वाशीऽइव । सुन्वते । मिमीते । इत् ॥
saníḥ ǀ mitrásya ǀ paprathe ǀ índraḥ ǀ sómasya ǀ pītáye ǀ
prā́cī ǀ vā́śī-iva ǀ sunvaté ǀ mímīte ǀ ít ǁ
saniḥ ǀ mitrasya ǀ paprathe ǀ indraḥ ǀ somasya ǀ pītaye ǀ
prācī ǀ vāśī-iva ǀ sunvate ǀ mimīte ǀ it ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.012.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.03.02
- Maṇḍala · Anuvāka · Ṛk
- 08.02.156
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parvata Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.