Ṛk 8.12.17
Saṃhitā
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मंद॑से ।
अ॒स्माक॒मित्सु॒ते र॑णा॒ समिंदु॑भिः ॥
यद् वा शक्र परावति समुद्रे अधि मन्दसे |
अस्माकम् इत् सुते रणा सम् इन्दुभिः ||
yádvā śakra parāváti samudré ádhi mándase ǀ
asmā́kamítsuté raṇā sámíndubhiḥ ǁ
yad vā śakra parāvati samudre adhi mandase |
asmākam it sute raṇā sam indubhiḥ ||
Padapāṭha
यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ।
अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥
यत् । वा । शक्र । पराऽवति । समुद्रे । अधि । मन्दसे ।
अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभिः ॥
yát ǀ vā ǀ śakra ǀ parā-váti ǀ samudré ǀ ádhi ǀ mándase ǀ
asmā́kam ǀ ít ǀ suté ǀ raṇa ǀ sám ǀ índu-bhiḥ ǁ
yat ǀ vā ǀ śakra ǀ parā-vati ǀ samudre ǀ adhi ǀ mandase ǀ
asmākam ǀ it ǀ sute ǀ raṇa ǀ sam ǀ indu-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.012.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.04.02
- Maṇḍala · Anuvāka · Ṛk
- 08.02.161
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parvata Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.