Ṛk 8.59.6
Saṃhitā
इंद्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।
यानि॒ स्थाना॑न्यसृजंत॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यं ॥
इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे |
यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ||
índrāvaruṇā yádṛṣíbhyo manīṣā́m vācó matím śrutámadattamágre ǀ
yā́ni sthā́nānyasṛjanta dhī́rā yajñám tanvānā́stápasābhyápaśyam ǁ
indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre |
yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam ||
Padapāṭha
इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ ।
यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥
इन्द्रावरुणा । यत् । ऋषिऽभ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे ।
यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम् ॥
índrāvaruṇā ǀ yát ǀ ṛṣí-bhyaḥ ǀ manīṣā́m ǀ vācáḥ ǀ matím ǀ śrutám ǀ adattam ǀ ágre ǀ
yā́ni ǀ sthā́nāni ǀ asṛjanta ǀ dhī́rāḥ ǀ yajñám ǀ tanvānā́ḥ ǀ tápasā ǀ abhí ǀ apaśyam ǁ
indrāvaruṇā ǀ yat ǀ ṛṣi-bhyaḥ ǀ manīṣām ǀ vācaḥ ǀ matim ǀ śrutam ǀ adattam ǀ agre ǀ
yāni ǀ sthānāni ǀ asṛjanta ǀ dhīrāḥ ǀ yajñam ǀ tanvānāḥ ǀ tapasā ǀ abhi ǀ apaśyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.059.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.31.02
- Maṇḍala · Anuvāka · Ṛk
- 08.06.250
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Suparṇa Kāṇva
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.