Ṛk 8.81.8
Saṃhitā
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सु तं स॑नुहि ॥
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः |
अस्माभिः सु तं सनुहि ||
índra yá u nú te ásti vā́jo víprebhiḥ sánitvaḥ ǀ
asmā́bhiḥ sú tám sanuhi ǁ
indra ya u nu te asti vājo viprebhiḥ sanitvaḥ |
asmābhiḥ su taṃ sanuhi ||
Padapāṭha
इन्द्र॑ । यः । ऊं॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः ।
अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥
इन्द्र । यः । ऊं इति । नु । ते । अस्ति । वाजः । विप्रेभिः । सनित्वः ।
अस्माभिः । सु । तम् । सनुहि ॥
índra ǀ yáḥ ǀ ūṃ íti ǀ nú ǀ te ǀ ásti ǀ vā́jaḥ ǀ víprebhiḥ ǀ sánitvaḥ ǀ
asmā́bhiḥ ǀ sú ǀ tám ǀ sanuhi ǁ
indra ǀ yaḥ ǀ ūṃ iti ǀ nu ǀ te ǀ asti ǀ vājaḥ ǀ viprebhiḥ ǀ sanitvaḥ ǀ
asmābhiḥ ǀ su ǀ tam ǀ sanuhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.081.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.38.03
- Maṇḍala · Anuvāka · Ṛk
- 08.09.008
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kusīdin Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.