Ṛk 8.24.11
Saṃhitā
नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।
मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥
नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः |
मघवञ् छग्धि तव तन् न ऊतिभिः ||
nū́ anyátrā cidadrivastvánno jagmurāśásaḥ ǀ
mághavañchagdhí táva tánna ūtíbhiḥ ǁ
nū anyatrā cid adrivas tvan no jagmur āśasaḥ |
maghavañ chagdhi tava tan na ūtibhiḥ ||
Padapāṭha
नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।
मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥
नु । अन्यत्र । चित् । अद्रिऽवः । त्वत् । नः । जग्मुः । आऽशसः ।
मघऽवन् । शग्धि । तव । तत् । नः । ऊतिऽभिः ॥
nú ǀ anyátra ǀ cit ǀ adri-vaḥ ǀ tvát ǀ naḥ ǀ jagmuḥ ǀ ā-śásaḥ ǀ
mágha-van ǀ śagdhí ǀ táva ǀ tát ǀ naḥ ǀ ūtí-bhiḥ ǁ
nu ǀ anyatra ǀ cit ǀ adri-vaḥ ǀ tvat ǀ naḥ ǀ jagmuḥ ǀ ā-śasaḥ ǀ
magha-van ǀ śagdhi ǀ tava ǀ tat ǀ naḥ ǀ ūti-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.024.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.17.01
- Maṇḍala · Anuvāka · Ṛk
- 08.04.077
- Devatā देवता
- 1-27: Indra; 28-30: Varu Sauṣāmṇa’s Dānastuti
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih, Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.