Ṛk 8.24.19
Saṃhitā
एतो॒ न्विंद्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नरं॑ ।
कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥
एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् |
कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ||
éto nvíndram stávāma sákhāyaḥ stómyam náram ǀ
kṛṣṭī́ryó víśvā abhyástyéka ít ǁ
eto nv indraṃ stavāma sakhāya stomyaṃ naram |
kṛṣṭīr yo viśvā abhy asty eka it ||
Padapāṭha
एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् ।
कृ॒ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥
एतो इति । नु । इन्द्रम् । स्तवाम । सखायः । स्तोम्यम् । नरम् ।
कृष्टीः । यः । विश्वाः । अभि । अस्ति । एकः । इत् ॥
éto íti ǀ nú ǀ índram ǀ stávāma ǀ sákhāyaḥ ǀ stómyam ǀ náram ǀ
kṛṣṭī́ḥ ǀ yáḥ ǀ víśvāḥ ǀ abhí ǀ ásti ǀ ékaḥ ǀ ít ǁ
eto iti ǀ nu ǀ indram ǀ stavāma ǀ sakhāyaḥ ǀ stomyam ǀ naram ǀ
kṛṣṭīḥ ǀ yaḥ ǀ viśvāḥ ǀ abhi ǀ asti ǀ ekaḥ ǀ it ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.024.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.18.04
- Maṇḍala · Anuvāka · Ṛk
- 08.04.085
- Devatā देवता
- 1-27: Indra; 28-30: Varu Sauṣāmṇa’s Dānastuti
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih, Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.