Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.17

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इं॑द्र वृत्र॒हंत॑मः ।
य ओ॑जो॒दात॑मो॒ मदः॑ ॥

यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः |
य ओजोदातमो मदः ||

yáste citráśravastamo yá indra vṛtrahántamaḥ ǀ
yá ojodā́tamo mádaḥ ǁ

yas te citraśravastamo ya indra vṛtrahantamaḥ |
ya ojodātamo madaḥ ||

Padapāṭha

यः । ते॒ । चि॒त्रश्र॑वःऽतमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।
यः । ओ॒जः॒ऽदात॑मः । मदः॑ ॥

यः । ते । चित्रश्रवःऽतमः । यः । इन्द्र । वृत्रहन्ऽतमः ।
यः । ओजःऽदातमः । मदः ॥

yáḥ ǀ te ǀ citráśravaḥ-tamaḥ ǀ yáḥ ǀ indra ǀ vṛtrahán-tamaḥ ǀ
yáḥ ǀ ojaḥ-dā́tamaḥ ǀ mádaḥ ǁ

yaḥ ǀ te ǀ citraśravaḥ-tamaḥ ǀ yaḥ ǀ indra ǀ vṛtrahan-tamaḥ ǀ
yaḥ ǀ ojaḥ-dātamaḥ ǀ madaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.17
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.18.02
Maṇḍala · Anuvāka · Ṛk
08.09.099
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.17

Interpretations

Sāyaṇa

हे इन्द्र चित्रश्रवस्तमः अतिशयेन नानाविधकीर्तिः योमदः सोमः ते त्वदर्थमस्माभिरभिषुतः यः सोमः वृत्रहन्तमः अतिरायेन पापानां हन्ता । किंच यः सोमः ओजोदातमः अतिशयेन बलस्य दाता तेनास्माभिर्दीयमानेन सोमेन त्वं माद्येरिति पूर्वेणसंबन्धः ॥ १७ ॥