Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.31

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

मा न॑ इंद्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् ।
त्वा यु॒जा व॑नेम॒ तत् ॥

मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् |
त्वा युजा वनेम तत् ||

mā́ na indrābhyā́díśaḥ sū́ro aktúṣvā́ yaman ǀ
tvā́ yujā́ vanema tát ǁ

mā na indrābhy ādiśaḥ sūro aktuṣv ā yaman |
tvā yujā vanema tat ||

Padapāṭha

मा । नः॒ । इ॒न्द्र॒ । अ॒भि । आ॒ऽदिशः॑ । सूरः॑ । अ॒क्तुषु॑ । आ । य॒म॒न् ।
त्वा । यु॒जा । व॒ने॒म॒ । तत् ॥

मा । नः । इन्द्र । अभि । आऽदिशः । सूरः । अक्तुषु । आ । यमन् ।
त्वा । युजा । वनेम । तत् ॥

mā́ ǀ naḥ ǀ indra ǀ abhí ǀ ā-díśaḥ ǀ sū́raḥ ǀ aktúṣu ǀ ā́ ǀ yaman ǀ
tvā́ ǀ yujā́ ǀ vanema ǀ tát ǁ

mā ǀ naḥ ǀ indra ǀ abhi ǀ ā-diśaḥ ǀ sūraḥ ǀ aktuṣu ǀ ā ǀ yaman ǀ
tvā ǀ yujā ǀ vanema ǀ tat ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.31
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.20.05
Maṇḍala · Anuvāka · Ṛk
08.09.113
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.31

Interpretations

Sāyaṇa

हे इन्द्र आदिशः आदेष्टारः समन्तादायुधान्यतिविसृजन्तः सुरः सृगतौ सर्वत्र सरणशीलाराक्षसाः अक्तुषु रात्रिषु दिवापि नोस्माकं माभ्यायमन् आभिमुख्येन मा नियन्तारोभवन्तु । यद्यागताश्चेत् तदा तद्रक्षःकुलं त्वा त्वया युजा सहायेन वयं वनेम अहन्म । श्नथ क्रथक्लथ हिंसार्थाः । वनचेति पठितत्वात्सिद्धार्थः ॥ ३१ ॥