Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.32

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

त्वयेदिं॑द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।
त्वम॒स्माकं॒ तव॑ स्मसि ॥

त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः |
त्वम् अस्माकं तव स्मसि ||

tváyédindra yujā́ vayám práti bruvīmahi spṛ́dhaḥ ǀ
tvámasmā́kam táva smasi ǁ

tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ |
tvam asmākaṃ tava smasi ||

Padapāṭha

त्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ ।
त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥

त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः ।
त्वम् । अस्माकम् । तव । स्मसि ॥

tváyā ǀ ít ǀ indra ǀ yujā́ ǀ vayám ǀ práti ǀ bruvīmahi ǀ spṛ́dhaḥ ǀ
tvám ǀ asmā́kam ǀ táva ǀ smasi ǁ

tvayā ǀ it ǀ indra ǀ yujā ǀ vayam ǀ prati ǀ bruvīmahi ǀ spṛdhaḥ ǀ
tvam ǀ asmākam ǀ tava ǀ smasi ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.32
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.20.06
Maṇḍala · Anuvāka · Ṛk
08.09.114
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.32

Interpretations

Sāyaṇa

हे इन्द्र त्वयेत् । इदवधारणे । त्वयैव युजा सहायेन स्पृधः स्पर्धमानान् शत्रून् वयं प्रतिब्रुवीमहि निराकुर्वीमहि । प्रतिवचनं निराकरणं । उत्तरार्धेन इन्द्रसाहाय्यमेव प्रतिपादयति-हे इन्द्र त्वमस्माकं भवसि स्तुत्यस्तोतृयष्टृयष्टव्यतया त्वमस्माकं भवसि । वयं तवस्मसि भवामः । तथारण्यकं-त्वमिदं सर्वमसि तववयंस्मः त्वमस्माकमसीति । तस्मात्त्वया सहायेन शत्रून्हन्यामेति ॥ ३२ ॥