Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.24

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

अरं॑ त इंद्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
अरं॒ धाम॑भ्य॒ इंद॑वः ॥

अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् |
अरं धामभ्य इन्दवः ||

áram ta indra kukṣáye sómo bhavatu vṛtrahan ǀ
áram dhā́mabhya índavaḥ ǁ

araṃ ta indra kukṣaye somo bhavatu vṛtrahan |
araṃ dhāmabhya indavaḥ ||

Padapāṭha

अर॑म् । ते॒ । इ॒न्द्र॒ । कु॒क्षये॑ । सोमः॑ । भ॒व॒तु॒ । वृ॒त्र॒ऽह॒न् ।
अर॑म् । धाम॑ऽभ्यः । इन्द॑वः ॥

अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्रऽहन् ।
अरम् । धामऽभ्यः । इन्दवः ॥

áram ǀ te ǀ indra ǀ kukṣáye ǀ sómaḥ ǀ bhavatu ǀ vṛtra-han ǀ
áram ǀ dhā́ma-bhyaḥ ǀ índavaḥ ǁ

aram ǀ te ǀ indra ǀ kukṣaye ǀ somaḥ ǀ bhavatu ǀ vṛtra-han ǀ
aram ǀ dhāma-bhyaḥ ǀ indavaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.24
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.19.04
Maṇḍala · Anuvāka · Ṛk
08.09.106
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.24

Interpretations

Sāyaṇa

हे वृत्रहन् वृत्रस्यापामावरकस्यासुरस्य पापस्यवा हन्तर्हे इन्द्र सोमोस्माभिर्दीयमानस्ते तव कुक्षये अरमलं पर्याप्तोभवतु । किंच इन्दवः सर्वतः क्षरणशीलाः सोमाः तवधामभ्यः नानाविधेभ्यः शरीरेभ्यः तव तेजोभ्योवा अरमलं पर्याप्ताभवन्तु । अनेन तेजसा हविर्भाक्त्वमस्तीति सूचितं । अस्मदीयाः सोमाएव तवकुक्षये देहेभ्योपि पर्याप्ताभवन्तु नान्यदीया इतिभावः ॥ २४ ॥