Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.30

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

मो षु ब्र॒ह्मेव॑ तंद्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥

मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते |
मत्स्वा सुतस्य गोमतः ||

mó ṣú brahméva tandrayúrbhúvo vājānām pate ǀ
mátsvā sutásya gómataḥ ǁ

mo ṣu brahmeva tandrayur bhuvo vājānām pate |
matsvā sutasya gomataḥ ||

Padapāṭha

मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ ।
मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥

मो इति । सु । ब्रह्माऽइव । तन्द्रयुः । भुवः । वाजानाम् । पते ।
मत्स्व । सुतस्य । गोऽमतः ॥

mó íti ǀ sú ǀ brahmā́-iva ǀ tandrayúḥ ǀ bhúvaḥ ǀ vājānām ǀ pate ǀ
mátsva ǀ sutásya ǀ gó-mataḥ ǁ

mo iti ǀ su ǀ brahmā-iva ǀ tandrayuḥ ǀ bhuvaḥ ǀ vājānām ǀ pate ǀ
matsva ǀ sutasya ǀ go-mataḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.30
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.20.04
Maṇḍala · Anuvāka · Ṛk
08.09.112
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.30

Interpretations

Sāyaṇa

हे वाजानांपते अन्नानांपते बलानां वा हे इन्द्र तन्द्रयुः निष्कारणं निवृत्तकर्मवत्वादालस्ययुक्तो ब्रह्मेव ब्राह्मणइव । अथापि तद्वदर्थे भाष्यतइति । यास्कोक्तमनुसूत्य तंद्रयुक्तइत्युक्तं । अथवा यागादिकर्मपरित्यागेनालस्यमिच्छन् नास्तिको ब्राह्मणइव त्वं मोषु भुवः सुष्ठु मा भवः । सर्वदा अस्मत्कर्मान्वितो भवेत्याशासनं । तदेवाह-सुतस्याभिषुतस्य ततो गोमतः गव्येन क्षीरेण दध्नावा मिश्रणवतः सोमस्य पानेन मत्स्व माद्य । हृष्टोभव ॥ ३० ॥