Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.23

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
य इं॑द्र ज॒ठरे॑षु ते ॥

विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे |
य इन्द्र जठरेषु ते ||

vivyáktha mahinā́ vṛṣanbhakṣám sómasya jāgṛve ǀ
yá indra jaṭháreṣu te ǁ

vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve |
ya indra jaṭhareṣu te ||

Padapāṭha

वि॒व्यक्थ॑ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम॑स्य । जा॒गृ॒वे॒ ।
यः । इ॒न्द्र॒ । ज॒ठरे॑षु । ते॒ ॥

विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे ।
यः । इन्द्र । जठरेषु । ते ॥

vivyáktha ǀ mahinā́ ǀ vṛṣan ǀ bhakṣám ǀ sómasya ǀ jāgṛve ǀ
yáḥ ǀ indra ǀ jaṭháreṣu ǀ te ǁ

vivyaktha ǀ mahinā ǀ vṛṣan ǀ bhakṣam ǀ somasya ǀ jāgṛve ǀ
yaḥ ǀ indra ǀ jaṭhareṣu ǀ te ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.23
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.19.03
Maṇḍala · Anuvāka · Ṛk
08.09.105
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.23

Interpretations

Sāyaṇa

हे वृषन् कामानांवर्षितः हे जागृवे जागरणशीलेन्द्र त्वं तस्य सोमस्य भक्षं पानं प्रति महिना स्वमहिम्ना विव्यक्थ सर्वतो व्याप्तवानसि । व्यचेर्लिटि थलि अभ्यासस्योभयेषामिति संप्रसारणं । हे इन्द्र यः सोमः ते जठरेषु उदरेषु प्रविशति तस्य पानं व्याप्तवानसीतिशेषः ॥ २३ ॥