Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.33

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
सखा॑य इंद्र का॒रवः॑ ॥

त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् |
सखाय इन्द्र कारवः ||

tvā́míddhí tvāyávo’nunónuvataścárān ǀ
sákhāya indra kārávaḥ ǁ

tvām id dhi tvāyavo 'nunonuvataś carān |
sakhāya indra kāravaḥ ||

Padapāṭha

त्वाम् । इत् । हि । त्वा॒ऽयवः॑ । अ॒नु॒ऽनोनु॑वतः । चरा॑न् ।
सखा॑यः । इ॒न्द्र॒ । का॒रवः॑ ॥

त्वाम् । इत् । हि । त्वाऽयवः । अनुऽनोनुवतः । चरान् ।
सखायः । इन्द्र । कारवः ॥

tvā́m ǀ ít ǀ hí ǀ tvā-yávaḥ ǀ anu-nónuvataḥ ǀ cárān ǀ
sákhāyaḥ ǀ indra ǀ kārávaḥ ǁ

tvām ǀ it ǀ hi ǀ tvā-yavaḥ ǀ anu-nonuvataḥ ǀ carān ǀ
sakhāyaḥ ǀ indra ǀ kāravaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.33
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.20.07
Maṇḍala · Anuvāka · Ṛk
08.09.115
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.33

Interpretations

Sāyaṇa

उद्धेति चतुस्त्रिंशदृचं त्रयोदशंसूक्तं सुकक्षस्यार्षं गायत्रमैन्दं अन्त्यात्विन्द्रऋभुदेवताका । तथाचानुक्रान्तं-उद्धचतुस्त्रिंशत् सुकक्षोन्त्यैन्द्रार्भवीति । द्वितीयेपर्याये होतुःशस्त्रे उत्तमावर्जमेतत्सूक्तं । सूत्रितंच-उद्धेदभीत्युत्तमामुद्धरेदिति । महाव्रतेप्यस्यविनियोगः पूर्वसूक्तेनसहोक्तः । ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्रे आद्यस्तृचः । सूत्रितंच-उद्धेदभीतितिस्र इन्द्रक्रतुविदंसुतमिति याज्येति । तथाप्तोर्यामे मैत्रावरुणातिरिक्तोक्थे अयंतृचोनुरूपः । सूत्रितंचयदद्यकच्चवृत्रहन्नुद्धेदभिश्रुतामघमानोविश्वाभिरिति ।