Ṛk 8.93.1
Saṃhitā
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसं ।
अस्ता॑रमेषि सूर्य ॥
उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् |
अस्तारम् एषि सूर्य ||
údghédabhí śrutā́magham vṛṣabhám náryāpasam ǀ
ástārameṣi sūrya ǁ
ud ghed abhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam |
astāram eṣi sūrya ||
Padapāṭha
उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् ।
अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥
उत् । घ । इत् । अभि । श्रुतऽमघम् । वृषभम् । नर्यऽअपसम् ।
अस्तारम् । एषि । सूर्य ॥
út ǀ gha ǀ ít ǀ abhí ǀ śrutá-magham ǀ vṛṣabhám ǀ nárya-apasam ǀ
ástāram ǀ eṣi ǀ sūrya ǁ
ut ǀ gha ǀ it ǀ abhi ǀ śruta-magham ǀ vṛṣabham ǀ narya-apasam ǀ
astāram ǀ eṣi ǀ sūrya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.093.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.21.01
- Maṇḍala · Anuvāka · Ṛk
- 08.09.116
- Devatā देवता
- 1-33: Indra; 34: Indra, Ṛbhus
- Ṛṣi ऋषि
- Sukakṣa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.