Ṛk 8.93.8
Saṃhitā
इंद्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सो॒म्यः ॥
इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः |
द्युम्नी श्लोकी स सोम्यः ||
índraḥ sá dā́mane kṛtá ójiṣṭhaḥ sá máde hitáḥ ǀ
dyumnī́ ślokī́ sá somyáḥ ǁ
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |
dyumnī ślokī sa somyaḥ ||
Padapāṭha
इन्द्रः॑ । सः । दाम॑ने । कृ॒तः । ओजि॑ष्ठः । सः । मदे॑ । हि॒तः ।
द्यु॒म्नी । श्लो॒की । सः । सो॒म्यः ॥
इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । मदे । हितः ।
द्युम्नी । श्लोकी । सः । सोम्यः ॥
índraḥ ǀ sáḥ ǀ dā́mane ǀ kṛtáḥ ǀ ójiṣṭhaḥ ǀ sáḥ ǀ máde ǀ hitáḥ ǀ
dyumnī́ ǀ ślokī́ ǀ sáḥ ǀ somyáḥ ǁ
indraḥ ǀ saḥ ǀ dāmane ǀ kṛtaḥ ǀ ojiṣṭhaḥ ǀ saḥ ǀ made ǀ hitaḥ ǀ
dyumnī ǀ ślokī ǀ saḥ ǀ somyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.093.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.22.03
- Maṇḍala · Anuvāka · Ṛk
- 08.09.123
- Devatā देवता
- 1-33: Indra; 34: Indra, Ṛbhus
- Ṛṣi ऋषि
- Sukakṣa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.