Ṛgveda · Maṇḍala 8 · Sūkta 93

Ṛk 8.93.25

Indra · Indra, Ṛbhus · Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

तुभ्यं॒ सोमाः॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।
स्तो॒तृभ्य॒ इंद्र॒मा व॑ह ॥

तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो |
स्तोतृभ्य इन्द्रम् आ वह ||

túbhyam sómāḥ sutā́ imé stīrṇám barhírvibhāvaso ǀ
stotṛ́bhya índramā́ vaha ǁ

tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso |
stotṛbhya indram ā vaha ||

Padapāṭha

तुभ्य॑म् । सोमाः॑ । सु॒ताः । इ॒मे । स्ती॒र्णम् । ब॒र्हिः । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । आ । व॒ह॒ ॥

तुभ्यम् । सोमाः । सुताः । इमे । स्तीर्णम् । बर्हिः । विभावसो इति विभाऽवसो ।
स्तोतृऽभ्यः । इन्द्रम् । आ । वह ॥

túbhyam ǀ sómāḥ ǀ sutā́ḥ ǀ imé ǀ stīrṇám ǀ barhíḥ ǀ vibhāvaso íti vibhā-vaso ǀ
stotṛ́-bhyaḥ ǀ índram ǀ ā́ ǀ vaha ǁ

tubhyam ǀ somāḥ ǀ sutāḥ ǀ ime ǀ stīrṇam ǀ barhiḥ ǀ vibhāvaso iti vibhā-vaso ǀ
stotṛ-bhyaḥ ǀ indram ǀ ā ǀ vaha ǁ

References

Maṇḍala · Sūkta · Ṛk
08.093.25
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.25.05
Maṇḍala · Anuvāka · Ṛk
08.09.140
Devatā देवता
1-33: Indra; 34: Indra, Ṛbhus
Ṛṣi ऋषि
Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.93.25

Interpretations

Sāyaṇa

हे विभावसो विशेषेण भासमान वसुमन् यद्वा विशिष्टाभा विभाः प्रकृष्टदीप्तयः निवसन्ति अत्रेति विभावसुरग्निः हे तादृशाग्ने तुभ्यं त्वदर्थं इमे सोमाः सुताः अभिषुताः तथा बर्हिः स्तीर्णं तस्मात्स्तोतृभ्योस्मभ्यं अस्मदर्थं इन्द्रं सोमपानार्थमावह आह्वय यज्ञं प्रति प्रापयेत्यर्थः ॥ २५ ॥