Ṛk 8.93.15
Saṃhitā
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्यं॑ ।
अजा॑तशत्रु॒रस्तृ॑तः ॥
आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् |
अजातशत्रुर् अस्तृतः ||
ā́du me nivaró bhuvadvṛtrahā́diṣṭa páuṃsyam ǀ
ájātaśatrurástṛtaḥ ǁ
ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam |
ajātaśatrur astṛtaḥ ||
Padapāṭha
आत् । ऊं॒ इति॑ । मे॒ । नि॒ऽव॒रः । भु॒व॒त् । वृ॒त्र॒ऽहा । अ॒दि॒ष्ट॒ । पौंस्य॑म् ।
अजा॑तऽशत्रुः । अस्तृ॑तः ॥
आत् । ऊं इति । मे । निऽवरः । भुवत् । वृत्रऽहा । अदिष्ट । पौंस्यम् ।
अजातऽशत्रुः । अस्तृतः ॥
ā́t ǀ ūṃ íti ǀ me ǀ ni-varáḥ ǀ bhuvat ǀ vṛtra-hā́ ǀ adiṣṭa ǀ páuṃsyam ǀ
ájāta-śatruḥ ǀ ástṛtaḥ ǁ
āt ǀ ūṃ iti ǀ me ǀ ni-varaḥ ǀ bhuvat ǀ vṛtra-hā ǀ adiṣṭa ǀ pauṃsyam ǀ
ajāta-śatruḥ ǀ astṛtaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.093.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.23.05
- Maṇḍala · Anuvāka · Ṛk
- 08.09.130
- Devatā देवता
- 1-33: Indra; 34: Indra, Ṛbhus
- Ṛṣi ऋषि
- Sukakṣa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.