Ṛgveda · Maṇḍala 8 · Sūkta 93

Ṛk 8.93.32

Indra · Indra, Ṛbhus · Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

द्वि॒ता यो वृ॑त्र॒हंत॑मो वि॒द इंद्रः॑ श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिः सु॒तं ॥

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः |
उप नो हरिभिः सुतम् ||

dvitā́ yó vṛtrahántamo vidá índraḥ śatákratuḥ ǀ
úpa no háribhiḥ sutám ǁ

dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ |
upa no haribhiḥ sutam ||

Padapāṭha

द्वि॒ता । यः । वृ॒त्र॒हन्ऽत॑मः । वि॒दे । इन्द्रः॑ । श॒तऽक्र॑तुः ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

द्विता । यः । वृत्रहन्ऽतमः । विदे । इन्द्रः । शतऽक्रतुः ।
उप । नः । हरिऽभिः । सुतम् ॥

dvitā́ ǀ yáḥ ǀ vṛtrahán-tamaḥ ǀ vidé ǀ índraḥ ǀ śatá-kratuḥ ǀ
úpa ǀ naḥ ǀ hári-bhiḥ ǀ sutám ǁ

dvitā ǀ yaḥ ǀ vṛtrahan-tamaḥ ǀ vide ǀ indraḥ ǀ śata-kratuḥ ǀ
upa ǀ naḥ ǀ hari-bhiḥ ǀ sutam ǁ

References

Maṇḍala · Sūkta · Ṛk
08.093.32
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.27.02
Maṇḍala · Anuvāka · Ṛk
08.09.147
Devatā देवता
1-33: Indra; 34: Indra, Ṛbhus
Ṛṣi ऋषि
Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.93.32

Interpretations

Sāyaṇa

वृत्रहन्तमोतिशयेन वृत्रस्यहन्ता शतक्रतुः नानाविधकर्मा यइन्द्रः द्विता द्विधाविदे वृत्रवधादौ उग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति द्विप्रकारेण सर्वैर्ज्ञायते । विदज्ञाने कर्मणिविहितस्य क्तप्रत्ययस्य लोपस्तआत्मनेपदेश्विति तलोपः सत्वं हरिभिः सह सुतं सोममुपयाहि ॥ ३२ ॥