Ṛk 8.93.11
Saṃhitā
यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नंति॑ स्व॒राज्यं॑ ।
न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥
यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् |
न देवो नाध्रिगुर् जनः ||
yásya te nū́ cidādíśam ná minánti svarā́jyam ǀ
ná devó nā́dhrigurjánaḥ ǁ
yasya te nū cid ādiśaṃ na minanti svarājyam |
na devo nādhrigur janaḥ ||
Padapāṭha
यस्य॑ । ते॒ । नु । चि॒त् । आ॒ऽदिश॑म् । न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ।
न । दे॒वः । न । अध्रि॑ऽगुः । जनः॑ ॥
यस्य । ते । नु । चित् । आऽदिशम् । न । मिनन्ति । स्वऽराज्यम् ।
न । देवः । न । अध्रिऽगुः । जनः ॥
yásya ǀ te ǀ nú ǀ cit ǀ ā-díśam ǀ ná ǀ minánti ǀ sva-rā́jyam ǀ
ná ǀ deváḥ ǀ ná ǀ ádhri-guḥ ǀ jánaḥ ǁ
yasya ǀ te ǀ nu ǀ cit ǀ ā-diśam ǀ na ǀ minanti ǀ sva-rājyam ǀ
na ǀ devaḥ ǀ na ǀ adhri-guḥ ǀ janaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.093.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.23.01
- Maṇḍala · Anuvāka · Ṛk
- 08.09.126
- Devatā देवता
- 1-33: Indra; 34: Indra, Ṛbhus
- Ṛṣi ऋषि
- Sukakṣa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.