Ṛgveda · Maṇḍala 8 · Sūkta 93

Ṛk 8.93.17

Indra · Indra, Ṛbhus · Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।
यत्सोमे॑सोम॒ आभ॑वः ॥

अया धिया च गव्यया पुरुणामन् पुरुष्टुत |
यत् सोमे-सोम आभवः ||

ayā́ dhiyā́ ca gavyayā́ púruṇāmanpúruṣṭuta ǀ
yátsómesoma ā́bhavaḥ ǁ

ayā dhiyā ca gavyayā puruṇāman puruṣṭuta |
yat some-soma ābhavaḥ ||

Padapāṭha

अ॒या । धि॒या । च॒ । ग॒व्य॒ऽया । पुरु॑ऽनामन् । पुरु॑ऽस्तुत ।
यत् । सोमे॑ऽसोमे । आ । अभ॑वः ॥

अया । धिया । च । गव्यऽया । पुरुऽनामन् । पुरुऽस्तुत ।
यत् । सोमेऽसोमे । आ । अभवः ॥

ayā́ ǀ dhiyā́ ǀ ca ǀ gavya-yā́ ǀ púru-nāman ǀ púru-stuta ǀ
yát ǀ sóme-some ǀ ā́ ǀ ábhavaḥ ǁ

ayā ǀ dhiyā ǀ ca ǀ gavya-yā ǀ puru-nāman ǀ puru-stuta ǀ
yat ǀ some-some ǀ ā ǀ abhavaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.093.17
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.24.02
Maṇḍala · Anuvāka · Ṛk
08.09.132
Devatā देवता
1-33: Indra; 34: Indra, Ṛbhus
Ṛṣi ऋषि
Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.93.17

Interpretations

Sāyaṇa

हे पुरुनामन् बहुविध शक्र वृत्रहादिनामोपेत । यद्वा बहुस्तुतिमन् नामयन्ति स्तुत्यं देवं वशं नयन्त्यनेनेति नाम स्तोत्रं । अतएव पुरुष्टुत बहुभिर- भिष्टुतेन्द्र सोमेसोमे अस्मदीयेषु सोमेषु त्वं यद्यदा आभवः तेषां पानार्थं समन्तादभवः तदा वयमया अनया कीदृश्या गव्यया गाआत्मनइच्छन्त्या धिया अनया बुद्भ्या युक्ता भवेम सोमं पीतवति त्वयि वयं गवादियुक्ता भवेमेत्यर्थः ॥ १७ ॥