Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.14

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।
न त्वामिं॒द्राति॑ रिच्यते ॥

त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः |
न त्वाम् इन्द्राति रिच्यते ||

tvé sú putra śavasó’vṛtrankā́makātayaḥ ǀ
ná tvā́mindrā́ti ricyate ǁ

tve su putra śavaso 'vṛtran kāmakātayaḥ |
na tvām indrāti ricyate ||

Padapāṭha

त्वे इति॑ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन् । काम॑ऽकातयः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

त्वे इति । सु । पुत्र । शवसः । अवृत्रन् । कामऽकातयः ।
न । त्वाम् । इन्द्र । अति । रिच्यते ॥

tvé íti ǀ sú ǀ putra ǀ śavasaḥ ǀ ávṛtran ǀ kā́ma-kātayaḥ ǀ
ná ǀ tvā́m ǀ indra ǀ áti ǀ ricyate ǁ

tve iti ǀ su ǀ putra ǀ śavasaḥ ǀ avṛtran ǀ kāma-kātayaḥ ǀ
na ǀ tvām ǀ indra ǀ ati ǀ ricyate ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.14
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.17.04
Maṇḍala · Anuvāka · Ṛk
08.09.096
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.14

Interpretations

Sāyaṇa

हे शवसस्पुत्र बलनिमित्तमुत्पन्नत्वाद्बलस्यपुत्रेन्द्र कामकातयः कैगै शब्दे कामपराः कातयः शब्दायेषां भवन्ति ते तथोक्ताः तादृशामनुष्याः त्वे त्वयि स्ववृत्रन् स्वस्वकामाभिपूरणार्थं सुष्ठु वर्तन्ते तस्मान्मर्त्यत्वानि कामोपेतानीत्युत्पन्नं । वृतुवर्तने लङि छान्दसोविकरणस्यलुक् बहुलंछन्दसीति रुडागमः । यतएवं ततः हे इन्द्र त्वां कश्चिदपि देवोनातिरिच्यते बलेन धनेनवा अतिरिक्तः समर्थोनास्ति ॥ १४ ॥