Ṛk 8.5.39
Saṃhitā
माकि॑रे॒ना प॒था गा॒द्येने॒मे यंति॑ चे॒दयः॑ ।
अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥
माकिर् एना पथा गाद् येनेमे यन्ति चेदयः |
अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ||
mā́kirenā́ pathā́ gādyénemé yánti cedáyaḥ ǀ
anyó nétsūríróhate bhūridā́vattaro jánaḥ ǁ
mākir enā pathā gād yeneme yanti cedayaḥ |
anyo net sūrir ohate bhūridāvattaro janaḥ ||
Padapāṭha
माकिः॑ । ए॒ना । प॒था । गा॒त् । येन॑ । इ॒मे । यन्ति॑ । चे॒दयः॑ ।
अ॒न्यः । न । इत् । सू॒रिः । ओह॑ते । भू॒रि॒दाव॑त्ऽतरः । जनः॑ ॥
माकिः । एना । पथा । गात् । येन । इमे । यन्ति । चेदयः ।
अन्यः । न । इत् । सूरिः । ओहते । भूरिदावत्ऽतरः । जनः ॥
mā́kiḥ ǀ enā́ ǀ pathā́ ǀ gāt ǀ yéna ǀ imé ǀ yánti ǀ cedáyaḥ ǀ
anyáḥ ǀ ná ǀ ít ǀ sūríḥ ǀ óhate ǀ bhūridā́vat-taraḥ ǀ jánaḥ ǁ
mākiḥ ǀ enā ǀ pathā ǀ gāt ǀ yena ǀ ime ǀ yanti ǀ cedayaḥ ǀ
anyaḥ ǀ na ǀ it ǀ sūriḥ ǀ ohate ǀ bhūridāvat-taraḥ ǀ janaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.005.39
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.08.04
- Maṇḍala · Anuvāka · Ṛk
- 08.01.160
- Devatā देवता
- 1-36: Aśvins; 37: Aśvins (A); Caidya’s Dānastuti (B); 38, 39: Caidya’s Dānastuti
- Ṛṣi ऋषि
- Brahmātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.