Ṛk 8.5.25
Saṃhitā
यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तं ।
अत्रिं॑ शिं॒जार॑मश्विना ॥
यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् |
अत्रिं शिञ्जारम् अश्विना ||
yáthā citkáṇvamā́vatam priyámedhamupastutám ǀ
átrim śiñjā́ramaśvinā ǁ
yathā cit kaṇvam āvatam priyamedham upastutam |
atriṃ śiñjāram aśvinā ||
Padapāṭha
यथा॑ । चि॒त् । कण्व॑म् । आव॑तम् । प्रि॒यऽमे॑धम् । उ॒प॒ऽस्तु॒तम् ।
अत्रि॑म् । शि॒ञ्जार॑म् । अ॒श्वि॒ना॒ ॥
यथा । चित् । कण्वम् । आवतम् । प्रियऽमेधम् । उपऽस्तुतम् ।
अत्रिम् । शिञ्जारम् । अश्विना ॥
yáthā ǀ cit ǀ káṇvam ǀ ā́vatam ǀ priyá-medham ǀ upa-stutám ǀ
átrim ǀ śiñjā́ram ǀ aśvinā ǁ
yathā ǀ cit ǀ kaṇvam ǀ āvatam ǀ priya-medham ǀ upa-stutam ǀ
atrim ǀ śiñjāram ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.005.25
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.05.05
- Maṇḍala · Anuvāka · Ṛk
- 08.01.146
- Devatā देवता
- 1-36: Aśvins; 37: Aśvins (A); Caidya’s Dānastuti (B); 38, 39: Caidya’s Dānastuti
- Ṛṣi ऋषि
- Brahmātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.