Ṛk 8.5.37
Saṃhitā
ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नां ।
यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोनां॑ ॥
ता मे अश्विना सनीनां विद्यातं नवानाम् |
यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ||
tā́ me aśvinā sanīnā́m vidyā́tam návānām ǀ
yáthā ciccaidyáḥ kaśúḥ śatámúṣṭrānām dádatsahásrā dáśa gónām ǁ
tā me aśvinā sanīnāṃ vidyātaṃ navānām |
yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām ||
Padapāṭha
ता । मे॒ । अ॒श्वि॒ना॒ । स॒नी॒नाम् । वि॒द्यात॑म् । नवा॑नाम् ।
यथा॑ । चि॒त् । चै॒द्यः । क॒शुः । श॒तम् । उष्ट्रा॑नाम् । दद॑त् । स॒हस्रा॑ । दश॑ । गोना॑म् ॥
ता । मे । अश्विना । सनीनाम् । विद्यातम् । नवानाम् ।
यथा । चित् । चैद्यः । कशुः । शतम् । उष्ट्रानाम् । ददत् । सहस्रा । दश । गोनाम् ॥
tā́ ǀ me ǀ aśvinā ǀ sanīnā́m ǀ vidyā́tam ǀ návānām ǀ
yáthā ǀ cit ǀ caidyáḥ ǀ kaśúḥ ǀ śatám ǀ úṣṭrānām ǀ dádat ǀ sahásrā ǀ dáśa ǀ gónām ǁ
tā ǀ me ǀ aśvinā ǀ sanīnām ǀ vidyātam ǀ navānām ǀ
yathā ǀ cit ǀ caidyaḥ ǀ kaśuḥ ǀ śatam ǀ uṣṭrānām ǀ dadat ǀ sahasrā ǀ daśa ǀ gonām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.005.37
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.08.02
- Maṇḍala · Anuvāka · Ṛk
- 08.01.158
- Devatā देवता
- 1-36: Aśvins; 37: Aśvins (A); Caidya’s Dānastuti (B); 38, 39: Caidya’s Dānastuti
- Ṛṣi ऋषि
- Brahmātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.