Ṛk 8.61.6
Saṃhitā
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः |
नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ||
pauró áśvasya purukṛ́dgávāmasyútso deva hiraṇyáyaḥ ǀ
nákirhí dā́nam parimárdhiṣattvé yádyadyā́mi tádā́ bhara ǁ
pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ |
nakir hi dānam parimardhiṣat tve yad-yad yāmi tad ā bhara ||
Padapāṭha
पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ।
नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥
पौरः । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्सः । देव । हिरण्ययः ।
नकिः । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥
pauráḥ ǀ áśvasya ǀ puru-kṛ́t ǀ gávām ǀ asi ǀ útsaḥ ǀ deva ǀ hiraṇyáyaḥ ǀ
nákiḥ ǀ hí ǀ dā́nam ǀ pari-márdhiṣat ǀ tvé íti ǀ yát-yat ǀ yā́mi ǀ tát ǀ ā́ ǀ bhara ǁ
pauraḥ ǀ aśvasya ǀ puru-kṛt ǀ gavām ǀ asi ǀ utsaḥ ǀ deva ǀ hiraṇyayaḥ ǀ
nakiḥ ǀ hi ǀ dānam ǀ pari-mardhiṣat ǀ tve iti ǀ yat-yat ǀ yāmi ǀ tat ǀ ā ǀ bhara ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.061.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.37.01
- Maṇḍala · Anuvāka · Ṛk
- 08.07.026
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.