Ṛgveda · Maṇḍala 8 · Sūkta 61

Ṛk 8.61.18

Indra · Bharga Pragātha

The whole sūkta Link

Saṃhitā

प्र॒भं॒गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कं ।
उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥

प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् |
उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ||

prabhaṅgī́ śū́ro maghávā tuvī́maghaḥ sámmiślo viryā́ya kám ǀ
ubhā́ te bāhū́ vṛ́ṣaṇā śatakrato ní yā́ vájram mimikṣátuḥ ǁ

prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam |
ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ ||

Padapāṭha

प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् ।
उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥

प्रऽभङ्गी । शूरः । मघऽवा । तुविऽमघः । सम्ऽमिश्लः । वीर्याय । कम् ।
उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतऽक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥

pra-bhaṅgī́ ǀ śū́raḥ ǀ maghá-vā ǀ tuví-maghaḥ ǀ sám-miślaḥ ǀ vīryā́ya ǀ kám ǀ
ubhā́ ǀ te ǀ bāhū́ íti ǀ vṛ́ṣaṇā ǀ śatakrato íti śata-krato ǀ ní ǀ yā́ ǀ vájram ǀ mimikṣátuḥ ǁ

pra-bhaṅgī ǀ śūraḥ ǀ magha-vā ǀ tuvi-maghaḥ ǀ sam-miślaḥ ǀ vīryāya ǀ kam ǀ
ubhā ǀ te ǀ bāhū iti ǀ vṛṣaṇā ǀ śatakrato iti śata-krato ǀ ni ǀ yā ǀ vajram ǀ mimikṣatuḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.061.18
Aṣṭaka · Adhyāya · Varga · Ṛk
6.4.39.03
Maṇḍala · Anuvāka · Ṛk
08.07.038
Devatā देवता
Indra
Ṛṣi ऋषि
Bharga Pragātha
Chandas छन्दस्
Bṛhatī, Satobṛhatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.61.18

Interpretations

Sāyaṇa

प्रोअस्माइति द्वादशर्चं तृतीयं सूक्तं काण्वस्य प्रगाथस्यार्षं पञ्चपदापंक्तिः सप्तम्याद्यास्तिस्रोबृहत्यः इन्द्रोदेवता । अत्रानुक्रमणिका-प्रोअस्मैद्वादश प्र- गाथः पाङ्क्तं सप्तम्याद्याश्च तिस्रोबृहत्यइति । विनियोगोलैंगिकः ।