Ṛk 8.61.12
Saṃhitā
उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यं ।
वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥
उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् |
वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ||
ugrám yuyujma pṛ́tanāsu sāsahímṛṇákātimádābhyam ǀ
védā bhṛmám citsánitā rathī́tamo vājínam yámídū náśat ǁ
ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam |
vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat ||
Padapāṭha
उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् ।
वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊं॒ इति॑ । नश॑त् ॥
उग्रम् । युयुज्म । पृतनासु । ससहिम् । ऋणऽकातिम् । अदाभ्यम् ।
वेद । भृमम् । चित् । सनिता । रथिऽतमः । वाजिनम् । यम् । इत् । ऊं इति । नशत् ॥
ugrám ǀ yuyujma ǀ pṛ́tanāsu ǀ sasahím ǀ ṛṇá-kātim ǀ ádābhyam ǀ
véda ǀ bhṛmám ǀ cit ǀ sánitā ǀ rathí-tamaḥ ǀ vājínam ǀ yám ǀ ít ǀ ūṃ íti ǀ náśat ǁ
ugram ǀ yuyujma ǀ pṛtanāsu ǀ sasahim ǀ ṛṇa-kātim ǀ adābhyam ǀ
veda ǀ bhṛmam ǀ cit ǀ sanitā ǀ rathi-tamaḥ ǀ vājinam ǀ yam ǀ it ǀ ūṃ iti ǀ naśat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.061.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.38.02
- Maṇḍala · Anuvāka · Ṛk
- 08.07.032
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.