Ṛk 8.61.16
Saṃhitā
त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इंद्र॒ नि पा॑हि वि॒श्वतः॑ ।
आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः |
आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ||
tvám naḥ paścā́dadharā́duttarā́tpurá índra ní pāhi viśvátaḥ ǀ
āré asmátkṛṇuhi dáivyam bhayámāré hetī́rádevīḥ ǁ
tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ |
āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ ||
Padapāṭha
त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ ।
आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥
त्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः ।
आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥
tvám ǀ naḥ ǀ paścā́t ǀ adharā́t ǀ uttarā́t ǀ puráḥ ǀ índra ǀ ní ǀ pāhi ǀ viśvátaḥ ǀ
āré ǀ asmát ǀ kṛṇuhi ǀ dáivyam ǀ bhayám ǀ āré ǀ hetī́ḥ ǀ ádevīḥ ǁ
tvam ǀ naḥ ǀ paścāt ǀ adharāt ǀ uttarāt ǀ puraḥ ǀ indra ǀ ni ǀ pāhi ǀ viśvataḥ ǀ
āre ǀ asmat ǀ kṛṇuhi ǀ daivyam ǀ bhayam ǀ āre ǀ hetīḥ ǀ adevīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.061.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.39.01
- Maṇḍala · Anuvāka · Ṛk
- 08.07.036
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.