Ṛk 8.36.3
Saṃhitā
ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
ऊर्जा देवां अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||
ūrjā́ devā́m̐ ávasyójasā tvā́m píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁ
ūrjā devāṃ avasy ojasā tvām pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
Padapāṭha
ऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥
ऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥
ūrjā́ ǀ devā́n ǀ ávasi ǀ ójasā ǀ tvā́m ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁ
ūrjā ǀ devān ǀ avasi ǀ ojasā ǀ tvām ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.036.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.18.03
- Maṇḍala · Anuvāka · Ṛk
- 08.05.112
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Śakvarī, Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.