Ṛk 8.8.10
Saṃhitā
आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतं ॥
आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू |
विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ||
ā́ yádvām yóṣaṇā ráthamátiṣṭhadvājinīvasū ǀ
víśvānyaśvinā yuvám prá dhītā́nyagacchatam ǁ
ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū |
viśvāny aśvinā yuvam pra dhītāny agacchatam ||
Padapāṭha
आ । यत् । वा॒म् । योष॑णा । रथ॑म् । अति॑ष्ठत् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
विश्वा॑नि । अ॒श्वि॒ना॒ । यु॒वम् । प्र । धी॒तानि॑ । अ॒ग॒च्छ॒त॒म् ॥
आ । यत् । वाम् । योषणा । रथम् । अतिष्ठत् । वाजिनीवसू इति वाजिनीऽवसू ।
विश्वानि । अश्विना । युवम् । प्र । धीतानि । अगच्छतम् ॥
ā́ ǀ yát ǀ vām ǀ yóṣaṇā ǀ rátham ǀ átiṣṭhat ǀ vājinīvasū íti vājinī-vasū ǀ
víśvāni ǀ aśvinā ǀ yuvám ǀ prá ǀ dhītā́ni ǀ agacchatam ǁ
ā ǀ yat ǀ vām ǀ yoṣaṇā ǀ ratham ǀ atiṣṭhat ǀ vājinīvasū iti vājinī-vasū ǀ
viśvāni ǀ aśvinā ǀ yuvam ǀ pra ǀ dhītāni ǀ agacchatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.008.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.26.05
- Maṇḍala · Anuvāka · Ṛk
- 08.02.094
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sadhvaṃsa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.