Ṛk 8.8.17
Saṃhitā
आ नो॑ गंतं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥
आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा |
कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ||
ā́ no gantam riśādasemám stómam purubhujā ǀ
kṛtám naḥ suśríyo naremā́ dātamabhíṣṭaye ǁ
ā no gantaṃ riśādasemaṃ stomam purubhujā |
kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye ||
Padapāṭha
आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ ।
कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥
आ । नः । गन्तम् । रिशादसा । इमम् । स्तोमम् । पुरुऽभुजा ।
कृतम् । नः । सुऽश्रियः । नरा । इमा । दातम् । अभिष्टये ॥
ā́ ǀ naḥ ǀ gantam ǀ riśādasā ǀ imám ǀ stómam ǀ puru-bhujā ǀ
kṛtám ǀ naḥ ǀ su-śríyaḥ ǀ narā ǀ imā́ ǀ dātam ǀ abhíṣṭaye ǁ
ā ǀ naḥ ǀ gantam ǀ riśādasā ǀ imam ǀ stomam ǀ puru-bhujā ǀ
kṛtam ǀ naḥ ǀ su-śriyaḥ ǀ narā ǀ imā ǀ dātam ǀ abhiṣṭaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.008.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.28.02
- Maṇḍala · Anuvāka · Ṛk
- 08.02.101
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sadhvaṃsa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.