Ṛk 8.8.1
Saṃhitā
आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वं ।
दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥
आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् |
दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ||
ā́ no víśvābhirūtíbhiráśvinā gácchatam yuvám ǀ
dásrā híraṇyavartanī píbatam somyám mádhu ǁ
ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam |
dasrā hiraṇyavartanī pibataṃ somyam madhu ||
Padapāṭha
आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । पिब॑तम् । सो॒म्यम् । मधु॑ ॥
आ । नः । विश्वाभिः । ऊतिऽभिः । अश्विना । गच्छतम् । युवम् ।
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । पिबतम् । सोम्यम् । मधु ॥
ā́ ǀ naḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ
dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ píbatam ǀ somyám ǀ mádhu ǁ
ā ǀ naḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ
dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ pibatam ǀ somyam ǀ madhu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.008.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.25.01
- Maṇḍala · Anuvāka · Ṛk
- 08.02.085
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sadhvaṃsa Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.