Ṛgveda · Maṇḍala 8 · Sūkta 68

Ṛk 8.68.10

Indra · Dānastuti Of Ṛkṣa And Āśvamedha · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।
इंद्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्यं॑ ॥

तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम |
इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ||

tám tvā yajñébhirīmahe tám gīrbhírgirvaṇastama ǀ
índra yáthā cidā́vitha vā́jeṣu purumā́yyam ǁ

taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama |
indra yathā cid āvitha vājeṣu purumāyyam ||

Padapāṭha

तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ ।
इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥

तम् । त्वा । यज्ञेभिः । ईमहे । तम् । गीःऽभिः । गिर्वणःऽतम ।
इन्द्र । यथा । चित् । आविथ । वाजेषु । पुरुऽमाय्यम् ॥

tám ǀ tvā ǀ yajñébhiḥ ǀ īmahe ǀ tám ǀ gīḥ-bhíḥ ǀ girvaṇaḥ-tama ǀ
índra ǀ yáthā ǀ cit ǀ ā́vitha ǀ vā́jeṣu ǀ puru-mā́yyam ǁ

tam ǀ tvā ǀ yajñebhiḥ ǀ īmahe ǀ tam ǀ gīḥ-bhiḥ ǀ girvaṇaḥ-tama ǀ
indra ǀ yathā ǀ cit ǀ āvitha ǀ vājeṣu ǀ puru-māyyam ǁ

References

Maṇḍala · Sūkta · Ṛk
08.068.10
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.02.05
Maṇḍala · Anuvāka · Ṛk
08.07.132
Devatā देवता
1-13: Indra; 14-19: Dānastuti Of Ṛkṣa And Āśvamedha
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.68.10

Interpretations

Sāyaṇa

तं स्तुत्यत्वेन प्रसिद्धं त्वा त्वां यज्ञेभिर्यागसाधनैः सोमादिभिरीमहे याचामहे तमेवेन्द्रं गीर्भिः स्तुतिभिरीमहे । हे गिर्वणस्तम गीर्भिः स्तुतिभिर्व- ननीयतमेन्द्र तंत्वामिति समन्वयः । हे इन्द्र त्वं यथाचिदाविथ येनप्रकारेण ररक्षिथ मां चिदितिपूरणः । कुत्रेति उच्यते-वाजेषु संग्रामेषु कीदृशं मां पुरुमाय्यं बहुप्रज्ञं बहुस्तुतिमित्यर्थः ॥ १० ॥