Ṛk 8.97.3
Saṃhitā
य इं॑द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।
स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥
य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः |
स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ||
yá indra sástyavrató’nuṣvā́pamádevayuḥ ǀ
sváiḥ ṣá évairmumuratpóṣyam rayím sanutárdhehi tám tátaḥ ǁ
ya indra sasty avrato 'nuṣvāpam adevayuḥ |
svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ ||
Padapāṭha
यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः ।
स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥
यः । इन्द्र । सस्ति । अव्रतः । अनुऽस्वापम् । अदेवऽयुः ।
स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि । तम् । ततः ॥
yáḥ ǀ indra ǀ sásti ǀ avratáḥ ǀ anu-svā́pam ǀ ádeva-yuḥ ǀ
sváiḥ ǀ sáḥ ǀ évaiḥ ǀ mumurat ǀ póṣyam ǀ rayím ǀ sanutáḥ ǀ dhehi ǀ tám ǀ tátaḥ ǁ
yaḥ ǀ indra ǀ sasti ǀ avrataḥ ǀ anu-svāpam ǀ adeva-yuḥ ǀ
svaiḥ ǀ saḥ ǀ evaiḥ ǀ mumurat ǀ poṣyam ǀ rayim ǀ sanutaḥ ǀ dhehi ǀ tam ǀ tataḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.097.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.36.03
- Maṇḍala · Anuvāka · Ṛk
- 8.10.045
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Rebha Kāśyapa
- Chandas छन्दस्
- Bṛhatī, Atijagatī, Upariṣṭādbṛhatī, Triṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.