Ṛk 8.97.13
Saṃhitā
तमिंद्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि |
मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ||
támíndram johavīmi maghávānamugrám satrā́ dádhānamápratiṣkutam śávāṃsi ǀ
máṃhiṣṭho gīrbhírā́ ca yajñíyo vavártadrāyé no víśvā supáthā kṛṇotu vajrī́ ǁ
tam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi |
maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī ||
Padapāṭha
तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि ।
मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥
तम् । इन्द्रम् । जोहवीमि । मघऽवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिऽस्कुतम् । शवांसि ।
मंहिष्ठः । गीःऽभिः । आ । च । यज्ञियः । ववर्तत् । राये । नः । विश्वा । सुऽपथा । कृणोतु । वज्री ॥
tám ǀ índram ǀ johavīmi ǀ maghá-vānam ǀ ugrám ǀ satrā́ ǀ dádhānam ǀ áprati-skutam ǀ śávāṃsi ǀ
máṃhiṣṭhaḥ ǀ gīḥ-bhíḥ ǀ ā́ ǀ ca ǀ yajñíyaḥ ǀ vavártat ǀ rāyé ǀ naḥ ǀ víśvā ǀ su-páthā ǀ kṛṇotu ǀ vajrī́ ǁ
tam ǀ indram ǀ johavīmi ǀ magha-vānam ǀ ugram ǀ satrā ǀ dadhānam ǀ aprati-skutam ǀ śavāṃsi ǀ
maṃhiṣṭhaḥ ǀ gīḥ-bhiḥ ǀ ā ǀ ca ǀ yajñiyaḥ ǀ vavartat ǀ rāye ǀ naḥ ǀ viśvā ǀ su-pathā ǀ kṛṇotu ǀ vajrī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.097.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.38.03
- Maṇḍala · Anuvāka · Ṛk
- 8.10.055
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Rebha Kāśyapa
- Chandas छन्दस्
- Bṛhatī, Atijagatī, Upariṣṭādbṛhatī, Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.