Ṛk 8.97.14
Saṃhitā
त्वं पुर॑ इंद्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
त्वद्विश्वा॑नि॒ भुव॑नानि वज्रिं॒द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै |
त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ||
tvám púra indra cikídenā vyójasā śaviṣṭha śakra nāśayádhyai ǀ
tvádvíśvāni bhúvanāni vajrindyā́vā rejete pṛthivī́ ca bhīṣā́ ǁ
tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai |
tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā ||
Padapāṭha
त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । श॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ ।
त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥
त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओजसा । शविष्ठ । शक्र । नाशयध्यै ।
त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेते इति । पृथिवी इति । च । भीषा ॥
tvám ǀ púraḥ ǀ indra ǀ cikít ǀ enāḥ ǀ ví ǀ ójasā ǀ śaviṣṭha ǀ śakra ǀ nāśayádhyai ǀ
tvát ǀ víśvāni ǀ bhúvanāni ǀ vajrin ǀ dyā́vā ǀ rejete íti ǀ pṛthivī́ íti ǀ ca ǀ bhīṣā́ ǁ
tvam ǀ puraḥ ǀ indra ǀ cikit ǀ enāḥ ǀ vi ǀ ojasā ǀ śaviṣṭha ǀ śakra ǀ nāśayadhyai ǀ
tvat ǀ viśvāni ǀ bhuvanāni ǀ vajrin ǀ dyāvā ǀ rejete iti ǀ pṛthivī iti ǀ ca ǀ bhīṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.097.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.38.04
- Maṇḍala · Anuvāka · Ṛk
- 8.10.056
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Rebha Kāśyapa
- Chandas छन्दस्
- Bṛhatī, Atijagatī, Upariṣṭādbṛhatī, Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.