Ṛgveda · Maṇḍala 8 · Sūkta 67

Ṛk 8.67.17

Ādityās · Matsya Sāmmada Or Mānya Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

शश्वं॑तं॒ हि प्र॑चेतसः प्रति॒यंतं॑ चि॒देन॑सः ।
देवाः॑ कृणु॒थ जी॒वसे॑ ॥

शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः |
देवाः कृणुथ जीवसे ||

śáśvantam hí pracetasaḥ pratiyántam cidénasaḥ ǀ
dévāḥ kṛṇuthá jīváse ǁ

śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ |
devāḥ kṛṇutha jīvase ||

Padapāṭha

शश्व॑न्तम् । हि । प्र॒ऽचे॒त॒सः॒ । प्र॒ति॒ऽयन्त॑म् । चि॒त् । एन॑सः ।
देवाः॑ । कृ॒णु॒थ । जी॒वसे॑ ॥

शश्वन्तम् । हि । प्रऽचेतसः । प्रतिऽयन्तम् । चित् । एनसः ।
देवाः । कृणुथ । जीवसे ॥

śáśvantam ǀ hí ǀ pra-cetasaḥ ǀ prati-yántam ǀ cit ǀ énasaḥ ǀ
dévāḥ ǀ kṛṇuthá ǀ jīváse ǁ

śaśvantam ǀ hi ǀ pra-cetasaḥ ǀ prati-yantam ǀ cit ǀ enasaḥ ǀ
devāḥ ǀ kṛṇutha ǀ jīvase ǁ

References

Maṇḍala · Sūkta · Ṛk
08.067.17
Aṣṭaka · Adhyāya · Varga · Ṛk
6.4.54.02
Maṇḍala · Anuvāka · Ṛk
08.07.118
Devatā देवता
Ādityās
Ṛṣi ऋषि
Matsya Sāmmada Or Mānya Maitrāvaruṇi
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.67.17

Interpretations

Sāyaṇa

हे प्रचेतसः प्रकृष्टमाया हे देवाः शश्वन्तं बहुमपि प्रतियन्तं चित् प्रतिगच्छन्तमपि शत्रुं एनसः पापस्य कर्तारं अथवा एनसः पापकृतः व्यत्ययेन बहुवचनं पापकर्तारं जीवसेजीवनायास्माकं कृणुत कुरुत अस्मत्तो वियुक्तमिति शेषः ॥ १७ ॥