Ṛgveda · Maṇḍala 7

Sūkta 104

Indra, Soma · Indra · Soma · Agni · Devāḥ · Grāvāṇaḥ · Maruts · Vasiṣṭha’s Wish (A) · Pṛthivī, Antarikṣa (C) · Vasiṣṭha Maitrāvaruṇi · 25 ṛks

Link
Devatā देवता
1-7, 15, 25: Indra, Soma; 8, 16, 19-22, 24: Indra; 9, 12, 13: Soma; 10, 14: Agni; 11: Devāḥ; 17: Grāvāṇaḥ; 18: Maruts; 23: Vasiṣṭha’s Wish (A); Pṛthivī, Antarikṣa (C)
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh, Jagatī, Jagatī Or Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (8, 10, 11, 13-15, 17, 23, 24); virāḍjagatī (1, 4, 6, 7); nicṛjjagatī (3, 5, 18, 21); triṣṭup (19, 20, 22); virāṭtrisṭup (12, 16); ārṣījagatī (2); ārṣītriṣṭup (9); pādanicṛdanuṣṭup (25)

2nd set of styles triṣṭubh (8-17, 19, 20, 22, 24); jagatī (1-6, 18, 21, 23); jagatī or triṣṭubh (7); anuṣṭubh (25)

  1. Ṛk 1

    इंद्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ ।
    परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥

    इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः |
    परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः ||

    índrāsomā tápatam rákṣa ubjátam nyárpayatam vṛṣaṇā tamovṛ́dhaḥ ǀ
    párā śṛṇītamacíto nyoṣatam hatám nudéthām ní śiśītamatríṇaḥ ǁ

    indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ |
    parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ ||

    इन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ ।
    परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥

    इन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमःऽवृधः ।
    परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः ॥

    índrāsomā ǀ tápatam ǀ rákṣaḥ ǀ ubjátam ǀ ní ǀ arpayatam ǀ vṛṣaṇā ǀ tamaḥ-vṛ́dhaḥ ǀ
    párā ǀ śṛṇītam ǀ acítaḥ ǀ ní ǀ oṣatam ǀ hatám ǀ nudéthām ǀ ní ǀ śiśītam ǀ atríṇaḥ ǁ

    indrāsomā ǀ tapatam ǀ rakṣaḥ ǀ ubjatam ǀ ni ǀ arpayatam ǀ vṛṣaṇā ǀ tamaḥ-vṛdhaḥ ǀ
    parā ǀ śṛṇītam ǀ acitaḥ ǀ ni ǀ oṣatam ǀ hatam ǀ nudethām ǀ ni ǀ śiśītam ǀ atriṇaḥ ǁ

    7.104.1 Aṣṭaka 5.7.5.1Anuvāka 7.6.102

  2. Ṛk 2

    इंद्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व ।
    ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥

    इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निवां इव |
    ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ||

    índrāsomā sámagháśaṃsamabhyághám tápuryayastu carúragnivā́m̐ iva ǀ
    brahmadvíṣe kravyā́de ghorácakṣase dvéṣo dhattamanavāyám kimīdíne ǁ

    indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṃ iva |
    brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine ||

    इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् । अ॒भि । अ॒घम् । तपुः॑ । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्ऽइ॑व ।
    ब्र॒ह्म॒ऽद्विषे॑ । क्र॒व्य॒ऽअदे॑ । घो॒रऽच॑क्षसे । द्वेषः॑ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥

    इन्द्रासोमा । सम् । अघऽशंसम् । अभि । अघम् । तपुः । ययस्तु । चरुः । अग्निवान्ऽइव ।
    ब्रह्मऽद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेषः । धत्तम् । अनवायम् । किमीदिने ॥

    índrāsomā ǀ sám ǀ aghá-śaṃsam ǀ abhí ǀ aghám ǀ tápuḥ ǀ yayastu ǀ carúḥ ǀ agnivā́n-iva ǀ
    brahma-dvíṣe ǀ kravya-áde ǀ ghorá-cakṣase ǀ dvéṣaḥ ǀ dhattam ǀ anavāyám ǀ kimīdíne ǁ

    indrāsomā ǀ sam ǀ agha-śaṃsam ǀ abhi ǀ agham ǀ tapuḥ ǀ yayastu ǀ caruḥ ǀ agnivān-iva ǀ
    brahma-dviṣe ǀ kravya-ade ǀ ghora-cakṣase ǀ dveṣaḥ ǀ dhattam ǀ anavāyam ǀ kimīdine ǁ

    7.104.2 Aṣṭaka 5.7.5.2Anuvāka 7.6.103

  3. Ṛk 3

    इंद्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अं॒तर॑नारंभ॒णे तम॑सि॒ प्र वि॑ध्यतं ।
    यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥

    इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् |
    यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ||

    índrāsomā duṣkṛ́to vavré antáranārambhaṇé támasi prá vidhyatam ǀ
    yáthā nā́taḥ púnarékaścanódáyattádvāmastu sáhase manyumácchávaḥ ǁ

    indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam |
    yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumac chavaḥ ||

    इन्द्रा॑सोमा । दुः॒ऽकृतः॑ । व॒व्रे । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् ।
    यथा॑ । न । अतः॑ । पुनः॑ । एकः॑ । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शवः॑ ॥

    इन्द्रासोमा । दुःऽकृतः । वव्रे । अन्तः । अनारम्भणे । तमसि । प्र । विध्यतम् ।
    यथा । न । अतः । पुनः । एकः । चन । उत्ऽअयत् । तत् । वाम् । अस्तु । सहसे । मन्युऽमत् । शवः ॥

    índrāsomā ǀ duḥ-kṛ́taḥ ǀ vavré ǀ antáḥ ǀ anārambhaṇé ǀ támasi ǀ prá ǀ vidhyatam ǀ
    yáthā ǀ ná ǀ átaḥ ǀ púnaḥ ǀ ékaḥ ǀ caná ǀ ut-áyat ǀ tát ǀ vām ǀ astu ǀ sáhase ǀ manyu-mát ǀ śávaḥ ǁ

    indrāsomā ǀ duḥ-kṛtaḥ ǀ vavre ǀ antaḥ ǀ anārambhaṇe ǀ tamasi ǀ pra ǀ vidhyatam ǀ
    yathā ǀ na ǀ ataḥ ǀ punaḥ ǀ ekaḥ ǀ cana ǀ ut-ayat ǀ tat ǀ vām ǀ astu ǀ sahase ǀ manyu-mat ǀ śavaḥ ǁ

    7.104.3 Aṣṭaka 5.7.5.3Anuvāka 7.6.104

  4. Ṛk 4

    इंद्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णं ।
    उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥

    इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय तर्हणम् |
    उत् तक्षतं स्वर्यम् पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ||

    índrāsomā vartáyatam divó vadhám sám pṛthivyā́ agháśaṃsāya tárhaṇam ǀ
    úttakṣatam svaryám párvatebhyo yéna rákṣo vāvṛdhānám nijū́rvathaḥ ǁ

    indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam |
    ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ||

    इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । व॒धम् । सम् । पृ॒थि॒व्याः । अ॒घऽशं॑साय । तर्ह॑णम् ।
    उत् । त॒क्ष॒त॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ । रक्षः॑ । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थः ॥

    इन्द्रासोमा । वर्तयतम् । दिवः । वधम् । सम् । पृथिव्याः । अघऽशंसाय । तर्हणम् ।
    उत् । तक्षतम् । स्वर्यम् । पर्वतेभ्यः । येन । रक्षः । ववृधानम् । निऽजूर्वथः ॥

    índrāsomā ǀ vartáyatam ǀ diváḥ ǀ vadhám ǀ sám ǀ pṛthivyā́ḥ ǀ aghá-śaṃsāya ǀ tárhaṇam ǀ
    út ǀ takṣatam ǀ svaryám ǀ párvatebhyaḥ ǀ yéna ǀ rákṣaḥ ǀ vavṛdhānám ǀ ni-jū́rvathaḥ ǁ

    indrāsomā ǀ vartayatam ǀ divaḥ ǀ vadham ǀ sam ǀ pṛthivyāḥ ǀ agha-śaṃsāya ǀ tarhaṇam ǀ
    ut ǀ takṣatam ǀ svaryam ǀ parvatebhyaḥ ǀ yena ǀ rakṣaḥ ǀ vavṛdhānam ǀ ni-jūrvathaḥ ǁ

    7.104.4 Aṣṭaka 5.7.5.4Anuvāka 7.6.105

  5. Ṛk 5

    इंद्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः ।
    तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यंतु॑ निस्व॒रं ॥

    इन्द्रासोमा वर्तयतं दिवस् पर्य् अग्नितप्तेभिर् युवम् अश्महन्मभिः |
    तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ||

    índrāsomā vartáyatam diváspáryagnitaptébhiryuvámáśmahanmabhiḥ ǀ
    tápurvadhebhirajárebhiratríṇo ní párśāne vidhyatam yántu nisvarám ǁ

    indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ |
    tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram ||

    इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । परि॑ । अ॒ग्नि॒ऽत॒प्तेभिः॑ । यु॒वम् । अश्म॑हन्मऽभिः ।
    तपुः॑ऽवधेभिः । अ॒जरे॑भिः । अ॒त्रिणः॑ । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥

    इन्द्रासोमा । वर्तयतम् । दिवः । परि । अग्निऽतप्तेभिः । युवम् । अश्महन्मऽभिः ।
    तपुःऽवधेभिः । अजरेभिः । अत्रिणः । नि । पर्शाने । विध्यतम् । यन्तु । निऽस्वरम् ॥

    índrāsomā ǀ vartáyatam ǀ diváḥ ǀ pári ǀ agni-taptébhiḥ ǀ yuvám ǀ áśmahanma-bhiḥ ǀ
    tápuḥ-vadhebhiḥ ǀ ajárebhiḥ ǀ atríṇaḥ ǀ ní ǀ párśāne ǀ vidhyatam ǀ yántu ǀ ni-svarám ǁ

    indrāsomā ǀ vartayatam ǀ divaḥ ǀ pari ǀ agni-taptebhiḥ ǀ yuvam ǀ aśmahanma-bhiḥ ǀ
    tapuḥ-vadhebhiḥ ǀ ajarebhiḥ ǀ atriṇaḥ ǀ ni ǀ parśāne ǀ vidhyatam ǀ yantu ǀ ni-svaram ǁ

    7.104.5 Aṣṭaka 5.7.5.5Anuvāka 7.6.106

  6. Ṛk 6

    इंद्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ ।
    यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतं ॥

    इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना |
    यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ||

    índrāsomā pári vām bhūtu viśváta iyám matíḥ kakṣyā́śveva vājínā ǀ
    yā́m vām hótrām parihinómi medháyemā́ bráhmāṇi nṛpátīva jinvatam ǁ

    indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā |
    yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam ||

    इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वतः॑ । इ॒यम् । म॒तिः । क॒क्ष्या॑ । अश्वा॑ऽइव । वा॒जिना॑ ।
    याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् ॥

    इन्द्रासोमा । परि । वाम् । भूतु । विश्वतः । इयम् । मतिः । कक्ष्या । अश्वाऽइव । वाजिना ।
    याम् । वाम् । होत्राम् । परिऽहिनोमि । मेधया । इमा । ब्रह्माणि । नृपती इवेति नृपतीऽइव । जिन्वतम् ॥

    índrāsomā ǀ pári ǀ vām ǀ bhūtu ǀ viśvátaḥ ǀ iyám ǀ matíḥ ǀ kakṣyā́ ǀ áśvā-iva ǀ vājínā ǀ
    yā́m ǀ vām ǀ hótrām ǀ pari-hinómi ǀ medháyā ǀ imā́ ǀ bráhmāṇi ǀ nṛpátī ivéti nṛpátī-iva ǀ jinvatam ǁ

    indrāsomā ǀ pari ǀ vām ǀ bhūtu ǀ viśvataḥ ǀ iyam ǀ matiḥ ǀ kakṣyā ǀ aśvā-iva ǀ vājinā ǀ
    yām ǀ vām ǀ hotrām ǀ pari-hinomi ǀ medhayā ǀ imā ǀ brahmāṇi ǀ nṛpatī iveti nṛpatī-iva ǀ jinvatam ǁ

    7.104.6 Aṣṭaka 5.7.6.1Anuvāka 7.6.107

  7. Ṛk 7

    प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भंगु॒राव॑तः ।
    इंद्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥

    प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः |
    इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा ||

    práti smarethām tujáyadbhirévairhatám druhó rakṣáso bhaṅgurā́vataḥ ǀ
    índrāsomā duṣkṛ́te mā́ sugám bhūdyó naḥ kadā́ cidabhidā́sati druhā́ ǁ

    prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ |
    indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā ||

    प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवैः॑ । ह॒तम् । द्रु॒हः । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः ।
    इन्द्रा॑सोमा । दुः॒ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । नः॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हा ॥

    प्रति । स्मरेथाम् । तुजयत्ऽभिः । एवैः । हतम् । द्रुहः । रक्षसः । भङ्गुरऽवतः ।
    इन्द्रासोमा । दुःऽकृते । मा । सुऽगम् । भूत् । यः । नः । कदा । चित् । अभिऽदासति । द्रुहा ॥

    práti ǀ smarethām ǀ tujáyat-bhiḥ ǀ évaiḥ ǀ hatám ǀ druháḥ ǀ rakṣásaḥ ǀ bhaṅgurá-vataḥ ǀ
    índrāsomā ǀ duḥ-kṛ́te ǀ mā́ ǀ su-gám ǀ bhūt ǀ yáḥ ǀ naḥ ǀ kadā́ ǀ cit ǀ abhi-dā́sati ǀ druhā́ ǁ

    prati ǀ smarethām ǀ tujayat-bhiḥ ǀ evaiḥ ǀ hatam ǀ druhaḥ ǀ rakṣasaḥ ǀ bhaṅgura-vataḥ ǀ
    indrāsomā ǀ duḥ-kṛte ǀ mā ǀ su-gam ǀ bhūt ǀ yaḥ ǀ naḥ ǀ kadā ǀ cit ǀ abhi-dāsati ǀ druhā ǁ

    7.104.7 Aṣṭaka 5.7.6.2Anuvāka 7.6.108

  8. Ṛk 8

    यो मा॒ पाके॑न॒ मन॑सा॒ चरं॑तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः ।
    आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इंद्र व॒क्ता ॥

    यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः |
    आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता ||

    yó mā pā́kena mánasā cárantamabhicáṣṭe ánṛtebhirvácobhiḥ ǀ
    ā́pa iva kāśínā sáṃgṛbhītā ásannastvā́sata indra vaktā́ ǁ

    yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ |
    āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā ||

    यः । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टे॑ । अनृ॑तेभिः । वचः॑ऽभिः ।
    आपः॑ऽइव । का॒शिना॑ । सम्ऽगृ॑भीताः । अस॑न् । अ॒स्तु॒ । अस॑तः । इ॒न्द्र॒ । व॒क्ता ॥

    यः । मा । पाकेन । मनसा । चरन्तम् । अभिऽचष्टे । अनृतेभिः । वचःऽभिः ।
    आपःऽइव । काशिना । सम्ऽगृभीताः । असन् । अस्तु । असतः । इन्द्र । वक्ता ॥

    yáḥ ǀ mā ǀ pā́kena ǀ mánasā ǀ cárantam ǀ abhi-cáṣṭe ǀ ánṛtebhiḥ ǀ vácaḥ-bhiḥ ǀ
    ā́paḥ-iva ǀ kāśínā ǀ sám-gṛbhītāḥ ǀ ásan ǀ astu ǀ ásataḥ ǀ indra ǀ vaktā́ ǁ

    yaḥ ǀ mā ǀ pākena ǀ manasā ǀ carantam ǀ abhi-caṣṭe ǀ anṛtebhiḥ ǀ vacaḥ-bhiḥ ǀ
    āpaḥ-iva ǀ kāśinā ǀ sam-gṛbhītāḥ ǀ asan ǀ astu ǀ asataḥ ǀ indra ǀ vaktā ǁ

    7.104.8 Aṣṭaka 5.7.6.3Anuvāka 7.6.109

  9. Ṛk 9

    ये पा॑कशं॒सं वि॒हरं॑त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षयं॑ति स्व॒धाभिः॑ ।
    अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ द��ातु॒ निर्ऋ॑तेरु॒पस्थे॑ ॥

    ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः |
    अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे ||

    yé pākaśaṃsám viháranta évairyé vā bhadrám dūṣáyanti svadhā́bhiḥ ǀ
    áhaye vā tā́npradádātu sóma ā́ vā dadhātu nírṛterupásthe ǁ

    ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ |
    ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe ||

    ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवैः॑ । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभिः॑ ।
    अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोमः॑ । आ । वा॒ । द॒धा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्थे॑ ॥

    ये । पाकऽशंसम् । विऽहरन्ते । एवैः । ये । वा । भद्रम् । दूषयन्ति । स्वधाभिः ।
    अहये । वा । तान् । प्रऽददातु । सोमः । आ । वा । दधातु । निःऽऋतेः । उपऽस्थे ॥

    yé ǀ pāka-śaṃsám ǀ vi-hárante ǀ évaiḥ ǀ yé ǀ vā ǀ bhadrám ǀ dūṣáyanti ǀ svadhā́bhiḥ ǀ
    áhaye ǀ vā ǀ tā́n ǀ pra-dádātu ǀ sómaḥ ǀ ā́ ǀ vā ǀ dadhātu ǀ níḥ-ṛteḥ ǀ upá-sthe ǁ

    ye ǀ pāka-śaṃsam ǀ vi-harante ǀ evaiḥ ǀ ye ǀ vā ǀ bhadram ǀ dūṣayanti ǀ svadhābhiḥ ǀ
    ahaye ǀ vā ǀ tān ǀ pra-dadātu ǀ somaḥ ǀ ā ǀ vā ǀ dadhātu ǀ niḥ-ṛteḥ ǀ upa-sthe ǁ

    7.104.9 Aṣṭaka 5.7.6.4Anuvāka 7.6.110

  10. Ṛk 10

    यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूनां॑ ।
    रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥

    यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् |
    रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ||

    yó no rásam dípsati pitvó agne yó áśvānām yó gávām yástanū́nām ǀ
    ripúḥ stenáḥ steyakṛ́ddabhrámetu ní ṣá hīyatām tanvā́ tánā ca ǁ

    yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām |
    ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca ||

    यः । नः॒ । रस॑म् । दिप्स॑ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा॑नाम् । यः । गवा॑म् । यः । त॒नूना॑म् ।
    रि॒पुः । स्ते॒नः । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा॑ । तना॑ । च॒ ॥

    यः । नः । रसम् । दिप्सति । पित्वः । अग्ने । यः । अश्वानाम् । यः । गवाम् । यः । तनूनाम् ।
    रिपुः । स्तेनः । स्तेयऽकृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च ॥

    yáḥ ǀ naḥ ǀ rásam ǀ dípsati ǀ pitváḥ ǀ agne ǀ yáḥ ǀ áśvānām ǀ yáḥ ǀ gávām ǀ yáḥ ǀ tanū́nām ǀ
    ripúḥ ǀ stenáḥ ǀ steya-kṛ́t ǀ dabhrám ǀ etu ǀ ní ǀ sáḥ ǀ hīyatām ǀ tanvā́ ǀ tánā ǀ ca ǁ

    yaḥ ǀ naḥ ǀ rasam ǀ dipsati ǀ pitvaḥ ǀ agne ǀ yaḥ ǀ aśvānām ǀ yaḥ ǀ gavām ǀ yaḥ ǀ tanūnām ǀ
    ripuḥ ǀ stenaḥ ǀ steya-kṛt ǀ dabhram ǀ etu ǀ ni ǀ saḥ ǀ hīyatām ǀ tanvā ǀ tanā ǀ ca ǁ

    7.104.10 Aṣṭaka 5.7.6.5Anuvāka 7.6.111

  11. Ṛk 11

    प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ ।
    प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्तं॑ ॥

    परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः |
    प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम् ||

    paráḥ só astu tanvā́ tánā ca tisráḥ pṛthivī́radhó astu víśvāḥ ǀ
    práti śuṣyatu yáśo asya devā yó no dívā dípsati yáśca náktam ǁ

    paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ |
    prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam ||

    प॒रः । सः । अ॒स्तु॒ । त॒न्वा॑ । तना॑ । च॒ । ति॒स्रः । पृ॒थि॒वीः । अ॒धः । अ॒स्तु॒ । विश्वाः॑ ।
    प्रति॑ । शु॒ष्य॒तु॒ । यशः॑ । अ॒स्य॒ । दे॒वाः॒ । यः । नः॒ । दिवा॑ । दिप्स॑ति । यः । च॒ । नक्त॑म् ॥

    परः । सः । अस्तु । तन्वा । तना । च । तिस्रः । पृथिवीः । अधः । अस्तु । विश्वाः ।
    प्रति । शुष्यतु । यशः । अस्य । देवाः । यः । नः । दिवा । दिप्सति । यः । च । नक्तम् ॥

    paráḥ ǀ sáḥ ǀ astu ǀ tanvā́ ǀ tánā ǀ ca ǀ tisráḥ ǀ pṛthivī́ḥ ǀ adháḥ ǀ astu ǀ víśvāḥ ǀ
    práti ǀ śuṣyatu ǀ yáśaḥ ǀ asya ǀ devāḥ ǀ yáḥ ǀ naḥ ǀ dívā ǀ dípsati ǀ yáḥ ǀ ca ǀ náktam ǁ

    paraḥ ǀ saḥ ǀ astu ǀ tanvā ǀ tanā ǀ ca ǀ tisraḥ ǀ pṛthivīḥ ǀ adhaḥ ǀ astu ǀ viśvāḥ ǀ
    prati ǀ śuṣyatu ǀ yaśaḥ ǀ asya ǀ devāḥ ǀ yaḥ ǀ naḥ ǀ divā ǀ dipsati ǀ yaḥ ǀ ca ǀ naktam ǁ

    7.104.11 Aṣṭaka 5.7.7.1Anuvāka 7.6.112

  12. Ṛk 12

    सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते ।
    तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हंत्यास॑त् ॥

    सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते |
    तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत् ||

    suvijñānám cikitúṣe jánāya sáccā́sacca vácasī paspṛdhāte ǀ
    táyoryátsatyám yatarádṛ́jīyastádítsómo’vati hántyā́sat ǁ

    suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte |
    tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat ||

    सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ ।
    तयोः॑ । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑यः । तत् । इत् । सोमः॑ । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥

    सुऽविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति ।
    तयोः । यत् । सत्यम् । यतरत् । ऋजीयः । तत् । इत् । सोमः । अवति । हन्ति । असत् ॥

    su-vijñānám ǀ cikitúṣe ǀ jánāya ǀ sát ǀ ca ǀ ásat ǀ ca ǀ vácasī íti ǀ paspṛdhāte íti ǀ
    táyoḥ ǀ yát ǀ satyám ǀ yatarát ǀ ṛ́jīyaḥ ǀ tát ǀ ít ǀ sómaḥ ǀ avati ǀ hánti ǀ ásat ǁ

    su-vijñānam ǀ cikituṣe ǀ janāya ǀ sat ǀ ca ǀ asat ǀ ca ǀ vacasī iti ǀ paspṛdhāte iti ǀ
    tayoḥ ǀ yat ǀ satyam ǀ yatarat ǀ ṛjīyaḥ ǀ tat ǀ it ǀ somaḥ ǀ avati ǀ hanti ǀ asat ǁ

    7.104.12 Aṣṭaka 5.7.7.2Anuvāka 7.6.113

  13. Ṛk 13

    न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रयं॑तं ।
    हंति॒ रक्षो॒ हंत्यास॒द्वदं॑तमु॒भाविंद्र॑स्य॒ प्रसि॑तौ शयाते ॥

    न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् |
    हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ||

    ná vā́ u sómo vṛjinám hinoti ná kṣatríyam mithuyā́ dhāráyantam ǀ
    hánti rákṣo hántyā́sadvádantamubhā́víndrasya prásitau śayāte ǁ

    na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam |
    hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte ||

    न । वै । ऊं॒ इति॑ । सोमः॑ । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् ।
    हन्ति॑ । रक्षः॑ । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥

    न । वै । ऊं इति । सोमः । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् ।
    हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥

    ná ǀ vái ǀ ūṃ íti ǀ sómaḥ ǀ vṛjinám ǀ hinoti ǀ ná ǀ kṣatríyam ǀ mithuyā́ ǀ dhāráyantam ǀ
    hánti ǀ rákṣaḥ ǀ hánti ǀ ásat ǀ vádantam ǀ ubháu ǀ índrasya ǀ prá-sitau ǀ śayāte íti ǁ

    na ǀ vai ǀ ūṃ iti ǀ somaḥ ǀ vṛjinam ǀ hinoti ǀ na ǀ kṣatriyam ǀ mithuyā ǀ dhārayantam ǀ
    hanti ǀ rakṣaḥ ǀ hanti ǀ asat ǀ vadantam ǀ ubhau ǀ indrasya ǀ pra-sitau ǀ śayāte iti ǁ

    7.104.13 Aṣṭaka 5.7.7.3Anuvāka 7.6.114

  14. Ṛk 14

    यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने ।
    किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निर्ऋ॒थं स॑चंतां ॥

    यदि वाहम् अनृतदेव आस मोघं वा देवां अप्यूहे अग्ने |
    किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ||

    yádi vāhámánṛtadeva ā́sa mógham vā devā́m̐ apyūhé agne ǀ
    kímasmábhyam jātavedo hṛṇīṣe droghavā́caste nirṛthám sacantām ǁ

    yadi vāham anṛtadeva āsa moghaṃ vā devāṃ apyūhe agne |
    kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām ||

    यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेवः । आस॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ ।
    किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒ऽवाचः॑ । ते॒ । निः॒ऽऋ॒थम् । स॒च॒न्ता॒म् ॥

    यदि । वा । अहम् । अनृतऽदेवः । आस । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने ।
    किम् । अस्मभ्यम् । जातऽवेदः । हृणीषे । द्रोघऽवाचः । ते । निःऽऋथम् । सचन्ताम् ॥

    yádi ǀ vā ǀ ahám ǀ ánṛta-devaḥ ǀ ā́sa ǀ mógham ǀ vā ǀ devā́n ǀ api-ūhé ǀ agne ǀ
    kím ǀ asmábhyam ǀ jāta-vedaḥ ǀ hṛṇīṣe ǀ drogha-vā́caḥ ǀ te ǀ niḥ-ṛthám ǀ sacantām ǁ

    yadi ǀ vā ǀ aham ǀ anṛta-devaḥ ǀ āsa ǀ mogham ǀ vā ǀ devān ǀ api-ūhe ǀ agne ǀ
    kim ǀ asmabhyam ǀ jāta-vedaḥ ǀ hṛṇīṣe ǀ drogha-vācaḥ ǀ te ǀ niḥ-ṛtham ǀ sacantām ǁ

    7.104.14 Aṣṭaka 5.7.7.4Anuvāka 7.6.115

  15. Ṛk 15

    अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य ।
    अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥

    अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य |
    अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ||

    adyā́ murīya yádi yātudhā́no ásmi yádi vā́yustatápa pū́ruṣasya ǀ
    ádhā sá vīráirdaśábhirví yūyā yó mā mógham yā́tudhānétyā́ha ǁ

    adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya |
    adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha ||

    अ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधानः॑ । अस्मि॑ । यदि॑ । वा॒ । आयुः॑ । त॒तप॑ । पुरु॑षस्य ।
    अध॑ । सः । वी॒रैः । द॒शऽभिः॑ । वि । यू॒याः॒ । यः । मा॒ । मोघ॑म् । यातु॑ऽधान । इति॑ । आह॑ ॥

    अद्य । मुरीय । यदि । यातुऽधानः । अस्मि । यदि । वा । आयुः । ततप । पुरुषस्य ।
    अध । सः । वीरैः । दशऽभिः । वि । यूयाः । यः । मा । मोघम् । यातुऽधान । इति । आह ॥

    adyá ǀ murīya ǀ yádi ǀ yātu-dhā́naḥ ǀ ásmi ǀ yádi ǀ vā ǀ ā́yuḥ ǀ tatápa ǀ púruṣasya ǀ
    ádha ǀ sáḥ ǀ vīráiḥ ǀ daśá-bhiḥ ǀ ví ǀ yūyāḥ ǀ yáḥ ǀ mā ǀ mógham ǀ yā́tu-dhāna ǀ íti ǀ ā́ha ǁ

    adya ǀ murīya ǀ yadi ǀ yātu-dhānaḥ ǀ asmi ǀ yadi ǀ vā ǀ āyuḥ ǀ tatapa ǀ puruṣasya ǀ
    adha ǀ saḥ ǀ vīraiḥ ǀ daśa-bhiḥ ǀ vi ǀ yūyāḥ ǀ yaḥ ǀ mā ǀ mogham ǀ yātu-dhāna ǀ iti ǀ āha ǁ

    7.104.15 Aṣṭaka 5.7.7.5Anuvāka 7.6.116

  16. Ṛk 16

    यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ ।
    इंद्र॒स्तं हं॑तु मह॒ता व॒धेन॒ विश्व॑स्य जं॒तोर॑ध॒मस्प॑दीष्ट ॥

    यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह |
    इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ||

    yó mā́yātum yā́tudhānétyā́ha yó vā rakṣā́ḥ śúcirasmī́tyā́ha ǀ
    índrastám hantu mahatā́ vadhéna víśvasya jantóradhamáspadīṣṭa ǁ

    yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha |
    indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa ||

    यः । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । यः । वा॒ । र॒क्षाः । शुचिः॑ । अ॒स्मि॒ । इति॑ । आह॑ ।
    इन्द्रः॑ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥

    यः । मा । अयातुम् । यातुऽधान । इति । आह । यः । वा । रक्षाः । शुचिः । अस्मि । इति । आह ।
    इन्द्रः । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तोः । अधमः । पदीष्ट ॥

    yáḥ ǀ mā ǀ áyātum ǀ yā́tu-dhāna ǀ íti ǀ ā́ha ǀ yáḥ ǀ vā ǀ rakṣā́ḥ ǀ śúciḥ ǀ asmi ǀ íti ǀ ā́ha ǀ
    índraḥ ǀ tám ǀ hantu ǀ mahatā́ ǀ vadhéna ǀ víśvasya ǀ jantóḥ ǀ adhamáḥ ǀ padīṣṭa ǁ

    yaḥ ǀ mā ǀ ayātum ǀ yātu-dhāna ǀ iti ǀ āha ǀ yaḥ ǀ vā ǀ rakṣāḥ ǀ śuciḥ ǀ asmi ǀ iti ǀ āha ǀ
    indraḥ ǀ tam ǀ hantu ǀ mahatā ǀ vadhena ǀ viśvasya ǀ jantoḥ ǀ adhamaḥ ǀ padīṣṭa ǁ

    7.104.16 Aṣṭaka 5.7.8.1Anuvāka 7.6.117

  17. Ṛk 17

    प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना ।
    व॒व्राँ अ॑नं॒ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नंतु र॒क्षस॑ उप॒ब्दैः ॥

    प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्वं गूहमाना |
    वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ||

    prá yā́ jígāti khargáleva náktamápa druhā́ tanvám gū́hamānā ǀ
    vavrā́m̐ anantā́m̐ áva sā́ padīṣṭa grā́vāṇo ghnantu rakṣása upabdáiḥ ǁ

    pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā |
    vavrāṃ anantāṃ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ ||

    प्र । या । जिगा॑ति । ख॒र्गला॑ऽइव । नक्त॑म् । अप॑ । द्रु॒हा । त॒न्व॑म् । गूह॑माना ।
    व॒व्रान् । अ॒न॒न्तान् । अव॑ । सा । प॒दी॒ष्ट॒ । ग्रावा॑णः । घ्न॒न्तु॒ । र॒क्षसः॑ । उ॒प॒ब्दैः ॥

    प्र । या । जिगाति । खर्गलाऽइव । नक्तम् । अप । द्रुहा । तन्वम् । गूहमाना ।
    वव्रान् । अनन्तान् । अव । सा । पदीष्ट । ग्रावाणः । घ्नन्तु । रक्षसः । उपब्दैः ॥

    prá ǀ yā́ ǀ jígāti ǀ khargálā-iva ǀ náktam ǀ ápa ǀ druhā́ ǀ tanvám ǀ gū́hamānā ǀ
    vavrā́n ǀ anantā́n ǀ áva ǀ sā́ ǀ padīṣṭa ǀ grā́vāṇaḥ ǀ ghnantu ǀ rakṣásaḥ ǀ upabdáiḥ ǁ

    pra ǀ yā ǀ jigāti ǀ khargalā-iva ǀ naktam ǀ apa ǀ druhā ǀ tanvam ǀ gūhamānā ǀ
    vavrān ǀ anantān ǀ ava ǀ sā ǀ padīṣṭa ǀ grāvāṇaḥ ǀ ghnantu ǀ rakṣasaḥ ǀ upabdaiḥ ǁ

    7.104.17 Aṣṭaka 5.7.8.2Anuvāka 7.6.118

  18. Ṛk 18

    वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन ।
    वयो॒ ये भू॒त्वी प॒तयं॑ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥

    वि तिष्ठध्वम् मरुतो विक्ष्व् इच्छत गृभायत रक्षसः सम् पिनष्टन |
    वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ||

    ví tiṣṭhadhvam maruto vikṣvíccháta gṛbhāyáta rakṣásaḥ sám pinaṣṭana ǀ
    váyo yé bhūtvī́ patáyanti naktábhiryé vā rípo dadhiré devé adhvaré ǁ

    vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana |
    vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare ||

    वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒तः॒ । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षसः॑ । सम् । पि॒न॒ष्ट॒न॒ ।
    वयः॑ । ये । भू॒त्वी । प॒तय॑न्ति । न॒क्तऽभिः॑ । ये । वा॒ । रिपः॑ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥

    वि । तिष्ठध्वम् । मरुतः । विक्षु । इच्छत । गृभायत । रक्षसः । सम् । पिनष्टन ।
    वयः । ये । भूत्वी । पतयन्ति । नक्तऽभिः । ये । वा । रिपः । दधिरे । देवे । अध्वरे ॥

    ví ǀ tiṣṭhadhvam ǀ marutaḥ ǀ vikṣú ǀ iccháta ǀ gṛbhāyáta ǀ rakṣásaḥ ǀ sám ǀ pinaṣṭana ǀ
    váyaḥ ǀ yé ǀ bhūtvī́ ǀ patáyanti ǀ naktá-bhiḥ ǀ yé ǀ vā ǀ rípaḥ ǀ dadhiré ǀ devé ǀ adhvaré ǁ

    vi ǀ tiṣṭhadhvam ǀ marutaḥ ǀ vikṣu ǀ icchata ǀ gṛbhāyata ǀ rakṣasaḥ ǀ sam ǀ pinaṣṭana ǀ
    vayaḥ ǀ ye ǀ bhūtvī ǀ patayanti ǀ nakta-bhiḥ ǀ ye ǀ vā ǀ ripaḥ ǀ dadhire ǀ deve ǀ adhvare ǁ

    7.104.18 Aṣṭaka 5.7.8.3Anuvāka 7.6.119

  19. Ṛk 19

    प्र व॑र्तय दि॒वो अश्मा॑नमिंद्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि ।
    प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥

    प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं शिशाधि |
    प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन ||

    prá vartaya divó áśmānamindra sómaśitam maghavantsám śiśādhi ǀ
    prā́ktādápāktādadharā́dúdaktādabhí jahi rakṣásaḥ párvatena ǁ

    pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi |
    prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena ||

    प्र । व॒र्त॒य॒ । दि॒वः । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । शि॒शा॒धि॒ ।
    प्राक्ता॑त् । अपा॑क्तात् । अ॒ध॒रात् । उद॑क्तात् । अ॒भि । ज॒हि॒ । र॒क्षसः॑ । पर्व॑तेन ॥

    प्र । वर्तय । दिवः । अश्मानम् । इन्द्र । सोमऽशितम् । मघऽवन् । सम् । शिशाधि ।
    प्राक्तात् । अपाक्तात् । अधरात् । उदक्तात् । अभि । जहि । रक्षसः । पर्वतेन ॥

    prá ǀ vartaya ǀ diváḥ ǀ áśmānam ǀ indra ǀ sóma-śitam ǀ magha-van ǀ sám ǀ śiśādhi ǀ
    prā́ktāt ǀ ápāktāt ǀ adharā́t ǀ údaktāt ǀ abhí ǀ jahi ǀ rakṣásaḥ ǀ párvatena ǁ

    pra ǀ vartaya ǀ divaḥ ǀ aśmānam ǀ indra ǀ soma-śitam ǀ magha-van ǀ sam ǀ śiśādhi ǀ
    prāktāt ǀ apāktāt ǀ adharāt ǀ udaktāt ǀ abhi ǀ jahi ǀ rakṣasaḥ ǀ parvatena ǁ

    7.104.19 Aṣṭaka 5.7.8.4Anuvāka 7.6.120

  20. Ṛk 20

    ए॒त उ॒ त्ये प॑तयंति॒ श्वया॑तव॒ इंद्रं॑ दिप्संति दि॒प्सवोऽदा॑भ्यं ।
    शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥

    एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् |
    शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः ||

    etá u tyé patayanti śváyātava índram dipsanti dipsávó’dābhyam ǀ
    śíśīte śakráḥ píśunebhyo vadhám nūnám sṛjadaśánim yātumádbhyaḥ ǁ

    eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam |
    śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ ||

    ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तवः । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सवः॑ । अदा॑भ्यम् ।
    शिशी॑ते । श॒क्रः । पिशु॑नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥

    एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातवः । इन्द्रम् । दिप्सन्ति । दिप्सवः । अदाभ्यम् ।
    शिशीते । शक्रः । पिशुनेभ्यः । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्यः ॥

    eté ǀ ūṃ íti ǀ tyé ǀ patayanti ǀ śvá-yātavaḥ ǀ índram ǀ dipsanti ǀ dipsávaḥ ǀ ádābhyam ǀ
    śíśīte ǀ śakráḥ ǀ píśunebhyaḥ ǀ vadhám ǀ nūnám ǀ sṛjat ǀ aśánim ǀ yātumát-bhyaḥ ǁ

    ete ǀ ūṃ iti ǀ tye ǀ patayanti ǀ śva-yātavaḥ ǀ indram ǀ dipsanti ǀ dipsavaḥ ǀ adābhyam ǀ
    śiśīte ǀ śakraḥ ǀ piśunebhyaḥ ǀ vadham ǀ nūnam ǀ sṛjat ǀ aśanim ǀ yātumat-bhyaḥ ǁ

    7.104.20 Aṣṭaka 5.7.8.5Anuvāka 7.6.121

  21. Ṛk 21

    इंद्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सतां ।
    अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भिं॒दन्त्स॒त ए॑ति र॒क्षसः॑ ॥

    इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् |
    अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः ||

    índro yātūnā́mabhavatparāśaró havirmáthīnāmabhyā́vívāsatām ǀ
    abhī́du śakráḥ paraśúryáthā vánam pā́treva bhindántsatá eti rakṣásaḥ ǁ

    indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām |
    abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ ||

    इन्द्रः॑ । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒रः । ह॒विः॒ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् ।
    अ॒भि । इत् । ऊं॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः॑ ॥

    इन्द्रः । यातूनाम् । अभवत् । पराऽशरः । हविःऽमथीनाम् । अभि । आऽविवासताम् ।
    अभि । इत् । ऊं इति । शक्रः । परशुः । यथा । वनम् । पात्राऽइव । भिन्दन् । सतः । एति । रक्षसः ॥

    índraḥ ǀ yātūnā́m ǀ abhavat ǀ parā-śaráḥ ǀ haviḥ-máthīnām ǀ abhí ǀ ā-vívāsatām ǀ
    abhí ǀ ít ǀ ūṃ íti ǀ śakráḥ ǀ paraśúḥ ǀ yáthā ǀ vánam ǀ pā́trā-iva ǀ bhindán ǀ satáḥ ǀ eti ǀ rakṣásaḥ ǁ

    indraḥ ǀ yātūnām ǀ abhavat ǀ parā-śaraḥ ǀ haviḥ-mathīnām ǀ abhi ǀ ā-vivāsatām ǀ
    abhi ǀ it ǀ ūṃ iti ǀ śakraḥ ǀ paraśuḥ ǀ yathā ǀ vanam ǀ pātrā-iva ǀ bhindan ǀ sataḥ ǀ eti ǀ rakṣasaḥ ǁ

    7.104.21 Aṣṭaka 5.7.9.1Anuvāka 7.6.122

  22. Ṛk 22

    उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुं ।
    सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इंद्र ॥

    उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् |
    सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ||

    úlūkayātum śuśulū́kayātum jahí śváyātumutá kókayātum ǀ
    suparṇáyātumutá gṛ́dhrayātum dṛṣádeva prá mṛṇa rákṣa indra ǁ

    ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum |
    suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ||

    उलू॑कऽयातुम् । शु॒शु॒लूक॑ऽयातुम् । ज॒हि । श्वऽया॑तुम् । उ॒त । कोक॑ऽयातुम् ।
    सु॒प॒र्णऽया॑तुम् । उ॒त । गृध्र॑ऽयातुम् । दृ॒षदा॑ऽइव । प्र । मृ॒ण॒ । रक्षः॑ । इ॒न्द्र॒ ॥

    उलूकऽयातुम् । शुशुलूकऽयातुम् । जहि । श्वऽयातुम् । उत । कोकऽयातुम् ।
    सुपर्णऽयातुम् । उत । गृध्रऽयातुम् । दृषदाऽइव । प्र । मृण । रक्षः । इन्द्र ॥

    úlūka-yātum ǀ śuśulū́ka-yātum ǀ jahí ǀ śvá-yātum ǀ utá ǀ kóka-yātum ǀ
    suparṇá-yātum ǀ utá ǀ gṛ́dhra-yātum ǀ dṛṣádā-iva ǀ prá ǀ mṛṇa ǀ rákṣaḥ ǀ indra ǁ

    ulūka-yātum ǀ śuśulūka-yātum ǀ jahi ǀ śva-yātum ǀ uta ǀ koka-yātum ǀ
    suparṇa-yātum ǀ uta ǀ gṛdhra-yātum ǀ dṛṣadā-iva ǀ pra ǀ mṛṇa ǀ rakṣaḥ ǀ indra ǁ

    7.104.22 Aṣṭaka 5.7.9.2Anuvāka 7.6.123

  23. Ṛk 23

    मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ ।
    पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽंतरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

    मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना |
    पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ||

    mā́ no rákṣo abhí naḍyātumā́vatāmápocchatu mithunā́ yā́ kimīdínā ǀ
    pṛthivī́ naḥ pā́rthivātpātváṃhaso’ntárikṣam divyā́tpātvasmā́n ǁ

    mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā |
    pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||

    मा । नः॒ । रक्षः॑ । अ॒भि । न॒ट् । या॒तु॒ऽमाव॑ताम् । अप॑ । उ॒च्छ॒तु॒ । मि॒थु॒ना । या । कि॒मी॒दिना॑ ।
    पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥

    मा । नः । रक्षः । अभि । नट् । यातुऽमावताम् । अप । उच्छतु । मिथुना । या । किमीदिना ।
    पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥

    mā́ ǀ naḥ ǀ rákṣaḥ ǀ abhí ǀ naṭ ǀ yātu-mā́vatām ǀ ápa ǀ ucchatu ǀ mithunā́ ǀ yā́ ǀ kimīdínā ǀ
    pṛthivī́ ǀ naḥ ǀ pā́rthivāt ǀ pātu ǀ áṃhasaḥ ǀ antárikṣam ǀ divyā́t ǀ pātu ǀ asmā́n ǁ

    mā ǀ naḥ ǀ rakṣaḥ ǀ abhi ǀ naṭ ǀ yātu-māvatām ǀ apa ǀ ucchatu ǀ mithunā ǀ yā ǀ kimīdinā ǀ
    pṛthivī ǀ naḥ ǀ pārthivāt ǀ pātu ǀ aṃhasaḥ ǀ antarikṣam ǀ divyāt ǀ pātu ǀ asmān ǁ

    7.104.23 Aṣṭaka 5.7.9.3Anuvāka 7.6.124

  24. Ṛk 24

    इंद्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानां ।
    विग्री॑वासो॒ मूर॑देवा ऋदंतु॒ मा ते दृ॑शं॒त्सूर्य॑मु॒च्चरं॑तं ॥

    इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया शाशदानाम् |
    विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ||

    índra jahí púmāṃsam yātudhā́namutá stríyam māyáyā śā́śadānām ǀ
    vígrīvāso mū́radevā ṛdantu mā́ té dṛśantsū́ryamuccárantam ǁ

    indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām |
    vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam ||

    इन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् ।
    विऽग्री॑वासः । मूर॑ऽदेवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥

    इन्द्र । जहि । पुमांसम् । यातुऽधानम् । उत । स्त्रियम् । मायया । शाशदानाम् ।
    विऽग्रीवासः । मूरऽदेवाः । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्ऽचरन्तम् ॥

    índra ǀ jahí ǀ púmāṃsam ǀ yātu-dhā́nam ǀ utá ǀ stríyam ǀ māyáyā ǀ śā́śadānām ǀ
    ví-grīvāsaḥ ǀ mū́ra-devāḥ ǀ ṛdantu ǀ mā́ ǀ té ǀ dṛśan ǀ sū́ryam ǀ ut-cárantam ǁ

    indra ǀ jahi ǀ pumāṃsam ǀ yātu-dhānam ǀ uta ǀ striyam ǀ māyayā ǀ śāśadānām ǀ
    vi-grīvāsaḥ ǀ mūra-devāḥ ǀ ṛdantu ǀ mā ǀ te ǀ dṛśan ǀ sūryam ǀ ut-carantam ǁ

    7.104.24 Aṣṭaka 5.7.9.4Anuvāka 7.6.125

  25. Ṛk 25

    प्रति॑ चक्ष्व॒ वि च॒क्ष्वेंद्र॑श्च सोम जागृतं ।
    रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥

    प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् |
    रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ||

    práti cakṣva ví cakṣvéndraśca soma jāgṛtam ǀ
    rákṣobhyo vadhámasyatamaśánim yātumádbhyaḥ ǁ

    prati cakṣva vi cakṣvendraś ca soma jāgṛtam |
    rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ ||

    प्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्रः॑ । च॒ । सो॒म॒ । जा॒गृ॒त॒म् ।
    रक्षः॑ऽभ्यः । व॒धम् । अ॒स्य॒त॒म् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥

    प्रति । चक्ष्व । वि । चक्ष्व । इन्द्रः । च । सोम । जागृतम् ।
    रक्षःऽभ्यः । वधम् । अस्यतम् । अशनिम् । यातुमत्ऽभ्यः ॥

    práti ǀ cakṣva ǀ ví ǀ cakṣva ǀ índraḥ ǀ ca ǀ soma ǀ jāgṛtam ǀ
    rákṣaḥ-bhyaḥ ǀ vadhám ǀ asyatam ǀ aśánim ǀ yātumát-bhyaḥ ǁ

    prati ǀ cakṣva ǀ vi ǀ cakṣva ǀ indraḥ ǀ ca ǀ soma ǀ jāgṛtam ǀ
    rakṣaḥ-bhyaḥ ǀ vadham ǀ asyatam ǀ aśanim ǀ yātumat-bhyaḥ ǁ

    7.104.25 Aṣṭaka 5.7.9.5Anuvāka 7.6.126

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.104 · Indra, Soma · Indra · Soma · Agni · Devāḥ · Grāvāṇaḥ · Maruts · Vasiṣṭha’s Wish (A) · Pṛthivī, Antarikṣa (C)

Interpretations

Ralph T. H. Griffith

Ṛk 1

INDRA and Soma, burn, destroy the demon foe, send downward, O ye Bulls, those who add gloom to gloom. Annihilate the fools, slay them and burn them up: chase them away from us, pierce the voracious ones.

Ṛk 2

Indra and Soma, let sin round the wicked boil like as a caldron set amid the flames of fire. Against the foe of prayer, devourer of raw flesh, the vile fiend fierce of eye, keep ye perpetual hate.

Ṛk 3

Indra and Soma, plunge the wicked in the depth, yea, cast them into darkness that hath no support, So that not one of them may ever thence return: so may your wrathful might prevail and conquer them.

Ṛk 4

Indra and Soma, hurl your deadly crushing bolt down on the wicked fiend from heaven and from the earth. Yea, forge out of the mountains your celestial dart wherewith ye burn to death the waxing demon race.

Ṛk 5

Indra and Soma, cast ye downward out of heaven your deadly darts of stone burning with fiery flame, Eternal, scorching darts; plunge the voracious ones within the depth, and let them sink without a sound.

Ṛk 6

Indra and Soma, let this hymn control you both, even as the girth encompasses two vigorous steeds- The song of praise which I with wisdom offer you: do ye, as Lords of men, animate these my prayers.

Ṛk 7

In your impetuous manner think ye both thereon: destroy these evil beings, slay the treacherous fiends. Indra and Soma, let the wicked have no bliss who evermore assails us with malignity.

Ṛk 8

Whoso accuses me with words of falsehood when I pursue my way with guileless spirit, May he, the speaker of untruth, be, Indra, like water which the hollowed hand compresses.

Ṛk 9

Those who destroy, as is their wont, the simple, and with their evil natures barm the righteous, May Soma give them over to the serpent, or to the lap of Nirrti consign them.

Ṛk 10

The fiend, O Agni, who designs to injure the essence of our food, kine, steeds, or bodies, May he, the adversary, thief, and robber, sink to destruction, both himself and offipring.

Ṛk 11

May he be swept away, himself and children: may all the three earths press him down beneath them. May his fair glory, O ye Gods, be blighted, who in the day or night would fain destroy us.

Ṛk 12

The prudent finds it easy to distinguish the true and false: their words oppose each other. Of these two that which is the true and honest, Soma protects, and brings the false to nothing.

Ṛk 13

Never doth Soma aid and guide the wicked or him who falsely claims the Warrior's title. He slays the fiend and him who speaks untruly: both lie entangled in the noose of Indra.

Ṛk 14

As if I worshipped deities of falsehood, or thought vain thoughts about the Gods, O Agni. Why art thou angry with us, Jātavedas? Destruction fall on those who lie against thee!

Ṛk 15

So may I die this day if I have harassed any man's life or if I be a demon. Yea, may he lose all his ten sons together who with false tongue hath called me Yātudhāna.

Ṛk 16

May Indra slay him with a mighty weapon, and let the vilest of all creatures perish, The fiend who says that he is pure, who calls me a demon though devoid of demon nature.

Ṛk 17

She too who wanders like an owl at night-time, hiding her body in her guile and malice, May she fall downward into endless caverns. May press-stones with loud ring destroy the demons.

Ṛk 18

Spread out, ye Maruts, search among the people: seize ye and grind the Rākṣasas to pieces, Who fly abroad, transformed to birds, at night-time, or sully and pollute our holy worship.

Ṛk 19

Hurl down from heaven thy bolt of stone, O Indra: sharpen it, Maghavan, made keen by Soma. Forward, behind, and from above and under, smite down the demons with thy rocky weapon.

Ṛk 20

They fly, the demon dogs, and, bent on mischief, fain would they harm indomitable Indra. Śakra makes sharp his weapon for the wicked: now, let him cast his bolt at fiendish wizards.

Ṛk 21

Indra hath ever been the fiends’ destroyer who spoil oblations of the Gods’ invokers: Yea, Śakra, like an axe that splits the timber, attacks and smashes them like earthen vessels.

Ṛk 22

Destroy the fiend shaped like an owl or owlet, destroy him in the form of dog or cuckoo. Destroy him shaped as eagle or as vulture as with a stone, O Indra, crush the demon.

Ṛk 23

Let not the fiend of witchcraft-workers reach us: may Dawn drive off the couples of Kimīdins. Earth keep us safe from earthly woe and trouble: from grief that comes from heaven mid-air preserve us.

Ṛk 24

Slay the male demon, Indra! slay the female, joying and triumphing in arts of magic. Let the fools' gods with bent necks fall and perish, and see no more the Sun when he arises.