Sūkta 71
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2-4, 6); triṣṭup (1, 5)
2nd set of styles triṣṭubh
-
Ṛk 1
अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ ।
अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतं ॥अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् |
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद् युयोतम् ||ápa svásuruṣáso nágjihīte riṇákti kṛṣṇī́raruṣā́ya pánthām ǀ
áśvāmaghā gómaghā vām huvema dívā náktam śárumasmádyuyotam ǁapa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām |
aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam ||अप॑ । स्वसुः॑ । उ॒षसः॑ । नक् । जि॒ही॒ते॒ । रि॒णक्ति॑ । कृ॒ष्णीः । अ॒रु॒षाय॑ । पन्था॑म् ।
अश्व॑ऽमघा । गोऽम॑घा । वा॒म् । हु॒वे॒म॒ । दिवा॑ । नक्त॑म् । शरु॑म् । अ॒स्मत् । यु॒यो॒त॒म् ॥अप । स्वसुः । उषसः । नक् । जिहीते । रिणक्ति । कृष्णीः । अरुषाय । पन्थाम् ।
अश्वऽमघा । गोऽमघा । वाम् । हुवेम । दिवा । नक्तम् । शरुम् । अस्मत् । युयोतम् ॥ápa ǀ svásuḥ ǀ uṣásaḥ ǀ nák ǀ jihīte ǀ riṇákti ǀ kṛṣṇī́ḥ ǀ aruṣā́ya ǀ pánthām ǀ
áśva-maghā ǀ gó-maghā ǀ vām ǀ huvema ǀ dívā ǀ náktam ǀ śárum ǀ asmát ǀ yuyotam ǁapa ǀ svasuḥ ǀ uṣasaḥ ǀ nak ǀ jihīte ǀ riṇakti ǀ kṛṣṇīḥ ǀ aruṣāya ǀ panthām ǀ
aśva-maghā ǀ go-maghā ǀ vām ǀ huvema ǀ divā ǀ naktam ǀ śarum ǀ asmat ǀ yuyotam ǁ7.71.1 Aṣṭaka 5.5.18.1Anuvāka 7.5.1
-
Ṛk 2
उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वहं॑ता ।
यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता |
युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां नः ||upā́yātam dāśúṣe mártyāya ráthena vāmámaśvinā váhantā ǀ
yuyutámasmádánirāmámīvām dívā náktam mādhvī trā́sīthām naḥ ǁupāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā |
yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ ||उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मर्त्या॑य । रथे॑न । वा॒मम् । अ॒श्वि॒ना॒ । वह॑न्ता ।
यु॒यु॒तम् । अ॒स्मत् । अनि॑राम् । अमी॑वाम् । दिवा॑ । नक्त॑म् । मा॒ध्वी॒ इति॑ । त्रासी॑थाम् । नः॒ ॥उपऽआयातम् । दाशुषे । मर्त्याय । रथेन । वामम् । अश्विना । वहन्ता ।
युयुतम् । अस्मत् । अनिराम् । अमीवाम् । दिवा । नक्तम् । माध्वी इति । त्रासीथाम् । नः ॥upa-ā́yātam ǀ dāśúṣe ǀ mártyāya ǀ ráthena ǀ vāmám ǀ aśvinā ǀ váhantā ǀ
yuyutám ǀ asmát ǀ ánirām ǀ ámīvām ǀ dívā ǀ náktam ǀ mādhvī íti ǀ trā́sīthām ǀ naḥ ǁupa-āyātam ǀ dāśuṣe ǀ martyāya ǀ rathena ǀ vāmam ǀ aśvinā ǀ vahantā ǀ
yuyutam ǀ asmat ǀ anirām ǀ amīvām ǀ divā ǀ naktam ǀ mādhvī iti ǀ trāsīthām ǀ naḥ ǁ7.71.2 Aṣṭaka 5.5.18.2Anuvāka 7.5.2
-
Ṛk 3
आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयंतु ।
स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मंतं वहेथां ॥आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु |
स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं वहेथाम् ||ā́ vām ráthamavamásyām vyúṣṭau sumnāyávo vṛ́ṣaṇo vartayantu ǀ
syū́magabhastimṛtayúgbhiráśvairā́śvinā vásumantam vahethām ǁā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu |
syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām ||आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ ।
स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥आ । वाम् । रथम् । अवमस्याम् । विऽउष्टौ । सुम्नऽयवः । वृषणः । वर्तयन्तु ।
स्यूमऽगभस्तिम् । ऋतयुक्ऽभिः । अश्वैः । आ । अश्विना । वसुऽमन्तम् । वहेथाम् ॥ā́ ǀ vām ǀ rátham ǀ avamásyām ǀ ví-uṣṭau ǀ sumna-yávaḥ ǀ vṛ́ṣaṇaḥ ǀ vartayantu ǀ
syū́ma-gabhastim ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ ā́ ǀ aśvinā ǀ vásu-mantam ǀ vahethām ǁā ǀ vām ǀ ratham ǀ avamasyām ǀ vi-uṣṭau ǀ sumna-yavaḥ ǀ vṛṣaṇaḥ ǀ vartayantu ǀ
syūma-gabhastim ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ ā ǀ aśvinā ǀ vasu-mantam ǀ vahethām ǁ7.71.3 Aṣṭaka 5.5.18.3Anuvāka 7.5.3
-
Ṛk 4
यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वंधु॒रो वसु॑माँ उ॒स्रया॑मा ।
आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥यो वां रथो नृपती अस्ति वोऌहा त्रिवन्धुरो वसुमां उस्रयामा |
आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ||yó vām rátho nṛpatī ásti voḷhā́ trivandhuró vásumām̐ usráyāmā ǀ
ā́ na enā́ nāsatyópa yātamabhí yádvām viśvápsnyo jígāti ǁyo vāṃ ratho nṛpatī asti voḷhā trivandhuro vasumāṃ usrayāmā |
ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti ||यः । वा॒म् । रथः॑ । नृ॒प॒ती॒ इति॑ नृऽपती । अस्ति॑ । वो॒ळ्हा । त्रि॒ऽव॒न्धु॒रः । वसु॑ऽमान् । उ॒स्रऽया॑मा ।
आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्वऽप्स्न्यः॑ । जिगा॑ति ॥यः । वाम् । रथः । नृपती इति नृऽपती । अस्ति । वोळ्हा । त्रिऽवन्धुरः । वसुऽमान् । उस्रऽयामा ।
आ । नः । एना । नासत्या । उप । यातम् । अभि । यत् । वाम् । विश्वऽप्स्न्यः । जिगाति ॥yáḥ ǀ vām ǀ ráthaḥ ǀ nṛpatī íti nṛ-patī ǀ ásti ǀ voḷhā́ ǀ tri-vandhuráḥ ǀ vásu-mān ǀ usrá-yāmā ǀ
ā́ ǀ naḥ ǀ enā́ ǀ nāsatyā ǀ úpa ǀ yātam ǀ abhí ǀ yát ǀ vām ǀ viśvá-psnyaḥ ǀ jígāti ǁyaḥ ǀ vām ǀ rathaḥ ǀ nṛpatī iti nṛ-patī ǀ asti ǀ voḷhā ǀ tri-vandhuraḥ ǀ vasu-mān ǀ usra-yāmā ǀ
ā ǀ naḥ ǀ enā ǀ nāsatyā ǀ upa ǀ yātam ǀ abhi ǀ yat ǀ vām ǀ viśva-psnyaḥ ǀ jigāti ǁ7.71.4 Aṣṭaka 5.5.18.4Anuvāka 7.5.4
-
Ṛk 5
यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।
निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् |
निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ||yuvám cyávānam jaráso’mumuktam ní pedáva ūhathurāśúmáśvam ǀ
níráṃhasastámasaḥ spartamátrim ní jāhuṣám śithiré dhātamantáḥ ǁyuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam |
nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ ||यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।
निः । अंह॑सः । तम॑सः । स्प॒र्त॒म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति॑ ॥युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।
निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥yuvám ǀ cyávānam ǀ jarásaḥ ǀ amumuktam ǀ ní ǀ pedáve ǀ ūhathuḥ ǀ āśúm ǀ áśvam ǀ
níḥ ǀ áṃhasaḥ ǀ támasaḥ ǀ spartam ǀ átrim ǀ ní ǀ jāhuṣám ǀ śithiré ǀ dhātam ǀ antáríti ǁyuvam ǀ cyavānam ǀ jarasaḥ ǀ amumuktam ǀ ni ǀ pedave ǀ ūhathuḥ ǀ āśum ǀ aśvam ǀ
niḥ ǀ aṃhasaḥ ǀ tamasaḥ ǀ spartam ǀ atrim ǀ ni ǀ jāhuṣam ǀ śithire ǀ dhātam ǀ antariti ǁ7.71.5 Aṣṭaka 5.5.18.5Anuvāka 7.5.5
-
Ṛk 6
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् |
इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ||iyám manīṣā́ iyámaśvinā gī́rimā́m suvṛktím vṛṣaṇā juṣethām ǀ
imā́ bráhmāṇi yuvayū́nyagmanyūyám pāta svastíbhiḥ sádā naḥ ǁiyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥iyám ǀ manīṣā́ ǀ iyám ǀ aśvinā ǀ gī́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ
imā́ ǀ bráhmāṇi ǀ yuva-yū́ni ǀ agman ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁiyam ǀ manīṣā ǀ iyam ǀ aśvinā ǀ gīḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ
imā ǀ brahmāṇi ǀ yuva-yūni ǀ agman ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.71.6 Aṣṭaka 5.5.18.6Anuvāka 7.5.6
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.