Sūkta 72
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-4); virāṭtrisṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्चं॒द्रेण॑ यातं ।
अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचंते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् |
अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ||ā́ gómatā nāsatyā ráthenā́śvāvatā puruścandréṇa yātam ǀ
abhí vām víśvā niyútaḥ sacante spārháyā śriyā́ tanvā́ śubhānā́ ǁā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam |
abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā ||आ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् ।
अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥आ । गोऽमता । नासत्या । रथेन । अश्वऽवता । पुरुऽचन्द्रेण । यातम् ।
अभि । वाम् । विश्वाः । निऽयुतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना ॥ā́ ǀ gó-matā ǀ nāsatyā ǀ ráthena ǀ áśva-vatā ǀ puru-candréṇa ǀ yātam ǀ
abhí ǀ vām ǀ víśvāḥ ǀ ni-yútaḥ ǀ sacante ǀ spārháyā ǀ śriyā́ ǀ tanvā́ ǀ śubhānā́ ǁā ǀ go-matā ǀ nāsatyā ǀ rathena ǀ aśva-vatā ǀ puru-candreṇa ǀ yātam ǀ
abhi ǀ vām ǀ viśvāḥ ǀ ni-yutaḥ ǀ sacante ǀ spārhayā ǀ śriyā ǀ tanvā ǀ śubhānā ǁ7.72.1 Aṣṭaka 5.5.19.1Anuvāka 7.5.7
-
Ṛk 2
आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।
यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बंधु॑रु॒त तस्य॑ वित्तं ॥आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन |
युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम् ||ā́ no devébhirúpa yātamarvā́ksajóṣasā nāsatyā ráthena ǀ
yuvórhí naḥ sakhyā́ pítryāṇi samānó bándhurutá tásya vittam ǁā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena |
yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam ||आ । नः॒ । दे॒वेभिः॑ । उप॑ । या॒त॒म् । अ॒र्वाक् । स॒ऽजोष॑सा । ना॒स॒त्या॒ । रथे॑न ।
यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या॑णि । स॒मा॒नः । बन्धुः॑ । उ॒त । तस्य॑ । वि॒त्त॒म् ॥आ । नः । देवेभिः । उप । यातम् । अर्वाक् । सऽजोषसा । नासत्या । रथेन ।
युवोः । हि । नः । सख्या । पित्र्याणि । समानः । बन्धुः । उत । तस्य । वित्तम् ॥ā́ ǀ naḥ ǀ devébhiḥ ǀ úpa ǀ yātam ǀ arvā́k ǀ sa-jóṣasā ǀ nāsatyā ǀ ráthena ǀ
yuvóḥ ǀ hí ǀ naḥ ǀ sakhyā́ ǀ pítryāṇi ǀ samānáḥ ǀ bándhuḥ ǀ utá ǀ tásya ǀ vittam ǁā ǀ naḥ ǀ devebhiḥ ǀ upa ǀ yātam ǀ arvāk ǀ sa-joṣasā ǀ nāsatyā ǀ rathena ǀ
yuvoḥ ǀ hi ǀ naḥ ǀ sakhyā ǀ pitryāṇi ǀ samānaḥ ǀ bandhuḥ ǀ uta ǀ tasya ǀ vittam ǁ7.72.2 Aṣṭaka 5.5.19.2Anuvāka 7.5.8
-
Ṛk 3
उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रंजा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।
आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः |
आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ||údu stómāso aśvínorabudhrañjāmí bráhmāṇyuṣásaśca devī́ḥ ǀ
āvívāsanródasī dhíṣṇyemé ácchā vípro nā́satyā vivakti ǁud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ |
āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti ||उत् । ऊं॒ इति॑ । स्तोमा॑सः । अ॒श्विनोः॑ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा॑णि । उ॒षसः॑ । च॒ । दे॒वीः ।
आ॒ऽविवा॑सन् । रोद॑सी॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रः॑ । नास॑त्या । वि॒व॒क्ति॒ ॥उत् । ऊं इति । स्तोमासः । अश्विनोः । अबुध्रन् । जामि । ब्रह्माणि । उषसः । च । देवीः ।
आऽविवासन् । रोदसी इति । धिष्ण्ये इति । इमे इति । अच्छ । विप्रः । नासत्या । विवक्ति ॥út ǀ ūṃ íti ǀ stómāsaḥ ǀ aśvínoḥ ǀ abudhran ǀ jāmí ǀ bráhmāṇi ǀ uṣásaḥ ǀ ca ǀ devī́ḥ ǀ
ā-vívāsan ǀ ródasī íti ǀ dhíṣṇye íti ǀ imé íti ǀ áccha ǀ vípraḥ ǀ nā́satyā ǀ vivakti ǁut ǀ ūṃ iti ǀ stomāsaḥ ǀ aśvinoḥ ǀ abudhran ǀ jāmi ǀ brahmāṇi ǀ uṣasaḥ ǀ ca ǀ devīḥ ǀ
ā-vivāsan ǀ rodasī iti ǀ dhiṣṇye iti ǀ ime iti ǀ accha ǀ vipraḥ ǀ nāsatyā ǀ vivakti ǁ7.72.3 Aṣṭaka 5.5.19.3Anuvāka 7.5.9
-
Ṛk 4
वि चेदु॒च्छंत्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरंते ।
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरंते ॥वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते |
ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ||ví céducchántyaśvinā uṣā́saḥ prá vām bráhmāṇi kārávo bharante ǀ
ūrdhvám bhānúm savitā́ devó aśredbṛhádagnáyaḥ samídhā jarante ǁvi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante |
ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante ||वि । च॒ । इत् । उ॒च्छन्ति॑ । अ॒श्वि॒नौ॒ । उ॒षसः॑ । प्र । वा॒म् । ब्रह्मा॑णि । का॒रवः॑ । भ॒र॒न्ते॒ ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः॑ । स॒म्ऽइधा॑ । ज॒र॒न्ते॒ ॥वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते ।
ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्ऽइधा । जरन्ते ॥ví ǀ ca ǀ ít ǀ ucchánti ǀ aśvinau ǀ uṣásaḥ ǀ prá ǀ vām ǀ bráhmāṇi ǀ kārávaḥ ǀ bharante ǀ
ūrdhvám ǀ bhānúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ bṛhát ǀ agnáyaḥ ǀ sam-ídhā ǀ jarante ǁvi ǀ ca ǀ it ǀ ucchanti ǀ aśvinau ǀ uṣasaḥ ǀ pra ǀ vām ǀ brahmāṇi ǀ kāravaḥ ǀ bharante ǀ
ūrdhvam ǀ bhānum ǀ savitā ǀ devaḥ ǀ aśret ǀ bṛhat ǀ agnayaḥ ǀ sam-idhā ǀ jarante ǁ7.72.4 Aṣṭaka 5.5.19.4Anuvāka 7.5.10
-
Ṛk 5
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् |
आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ||ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt ǀ
ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ǁā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।
आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ā́ ǀ paścā́tāt ǀ nāsatyā ǀ ā́ ǀ purástāt ǀ ā́ ǀ aśvinā ǀ yātam ǀ adharā́t ǀ údaktāt ǀ
ā́ ǀ viśvátaḥ ǀ pā́ñca-janyena ǀ rāyā́ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁā ǀ paścātāt ǀ nāsatyā ǀ ā ǀ purastāt ǀ ā ǀ aśvinā ǀ yātam ǀ adharāt ǀ udaktāt ǀ
ā ǀ viśvataḥ ǀ pāñca-janyena ǀ rāyā ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.72.5 Aṣṭaka 5.5.19.5Anuvāka 7.5.11
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.