Sūkta 93
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (3, 4, 6, 7); nicṛttriṣṭup (1, 8); ārṣītriṣṭup (2, 5)
2nd set of styles triṣṭubh
-
Ṛk 1
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येंद्रा॑ग्नी वृत्रहणा जु॒षेथां॑ ।
उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् |
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ||śúcim nú stómam návajātamadyéndrāgnī vṛtrahaṇā juṣéthām ǀ
ubhā́ hí vām suhávā jóhavīmi tā́ vā́jam sadyá uśaté dhéṣṭhā ǁśuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām |
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā ||शुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् ।
उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥शुचिम् । नु । स्तोमम् । नवऽजातम् । अद्य । इन्द्राग्नी इति । वृत्रऽहना । जुषेथाम् ।
उभा । हि । वाम् । सुऽहवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा ॥śúcim ǀ nú ǀ stómam ǀ náva-jātam ǀ adyá ǀ índrāgnī íti ǀ vṛtra-hanā ǀ juṣéthām ǀ
ubhā́ ǀ hí ǀ vām ǀ su-hávā ǀ jóhavīmi ǀ tā́ ǀ vā́jam ǀ sadyáḥ ǀ uśaté ǀ dhéṣṭhā ǁśucim ǀ nu ǀ stomam ǀ nava-jātam ǀ adya ǀ indrāgnī iti ǀ vṛtra-hanā ǀ juṣethām ǀ
ubhā ǀ hi ǀ vām ǀ su-havā ǀ johavīmi ǀ tā ǀ vājam ǀ sadyaḥ ǀ uśate ǀ dheṣṭhā ǁ7.93.1 Aṣṭaka 5.6.15.1Anuvāka 7.6.20
-
Ṛk 2
ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ ।
क्षयं॑तौ रा॒यो यव॑सस्य॒ भूरेः॑ पृं॒क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः॑ ॥ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा |
क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ||tā́ sānasī́ śavasānā hí bhūtám sākaṃvṛ́dhā śávasā śūśuvā́ṃsā ǀ
kṣáyantau rāyó yávasasya bhū́reḥ pṛṅktám vā́jasya sthávirasya ghṛ́ṣveḥ ǁtā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā |
kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ ||ता । सा॒न॒सी इति॑ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्ऽवृधा॑ । शव॑सा । शू॒शु॒ऽवांसा॑ ।
क्षय॑न्तौ । रा॒यः । यव॑सस्य । भूरेः॑ । पृ॒ङ्क्तम् । वाज॑स्य । स्थवि॑रस्य । घृष्वेः॑ ॥ता । सानसी इति । शवसाना । हि । भूतम् । साकम्ऽवृधा । शवसा । शूशुऽवांसा ।
क्षयन्तौ । रायः । यवसस्य । भूरेः । पृङ्क्तम् । वाजस्य । स्थविरस्य । घृष्वेः ॥tā́ ǀ sānasī́ íti ǀ śavasānā ǀ hí ǀ bhūtám ǀ sākam-vṛ́dhā ǀ śávasā ǀ śūśu-vā́ṃsā ǀ
kṣáyantau ǀ rāyáḥ ǀ yávasasya ǀ bhū́reḥ ǀ pṛṅktám ǀ vā́jasya ǀ sthávirasya ǀ ghṛ́ṣveḥ ǁtā ǀ sānasī iti ǀ śavasānā ǀ hi ǀ bhūtam ǀ sākam-vṛdhā ǀ śavasā ǀ śūśu-vāṃsā ǀ
kṣayantau ǀ rāyaḥ ǀ yavasasya ǀ bhūreḥ ǀ pṛṅktam ǀ vājasya ǀ sthavirasya ǀ ghṛṣveḥ ǁ7.93.2 Aṣṭaka 5.6.15.2Anuvāka 7.6.21
-
Ṛk 3
उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा॑नाः ।
अर्वं॑तो॒ न काष्ठां॒ नक्ष॑माणा इंद्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः |
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ||úpo ha yádvidátham vājíno gúrdhībhírvíprāḥ prámatimicchámānāḥ ǀ
árvanto ná kā́ṣṭhām nákṣamāṇā indrāgnī́ jóhuvato nárasté ǁupo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ |
arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te ||उपो॒ इति॑ । ह॒ । यत् । वि॒दथ॑म् । वा॒जिनः॑ । गुः । धी॒भिः । विप्राः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नाः ।
अर्व॑न्तः । न । काष्ठा॑म् । नक्ष॑माणाः । इ॒न्द्रा॒ग्नी इति॑ । जोहु॑वतः । नरः॑ । ते ॥उपो इति । ह । यत् । विदथम् । वाजिनः । गुः । धीभिः । विप्राः । प्रऽमतिम् । इच्छमानाः ।
अर्वन्तः । न । काष्ठाम् । नक्षमाणाः । इन्द्राग्नी इति । जोहुवतः । नरः । ते ॥úpo íti ǀ ha ǀ yát ǀ vidátham ǀ vājínaḥ ǀ gúḥ ǀ dhībhíḥ ǀ víprāḥ ǀ prá-matim ǀ icchámānāḥ ǀ
árvantaḥ ǀ ná ǀ kā́ṣṭhām ǀ nákṣamāṇāḥ ǀ indrāgnī́ íti ǀ jóhuvataḥ ǀ náraḥ ǀ té ǁupo iti ǀ ha ǀ yat ǀ vidatham ǀ vājinaḥ ǀ guḥ ǀ dhībhiḥ ǀ viprāḥ ǀ pra-matim ǀ icchamānāḥ ǀ
arvantaḥ ǀ na ǀ kāṣṭhām ǀ nakṣamāṇāḥ ǀ indrāgnī iti ǀ johuvataḥ ǀ naraḥ ǀ te ǁ7.93.3 Aṣṭaka 5.6.15.3Anuvāka 7.6.22
-
Ṛk 4
गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाजं॑ ।
इंद्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिं यशसम् पूर्वभाजम् |
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ||gīrbhírvípraḥ prámatimicchámāna ī́ṭṭe rayím yaśásam pūrvabhā́jam ǀ
índrāgnī vṛtrahaṇā suvajrā prá no návyebhistiratam deṣṇáiḥ ǁgīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam |
indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ ||गीः॒ऽभिः । विप्रः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नः । ईट्टे॑ । र॒यिम् । य॒शस॑म् । पू॒र्व॒ऽभाज॑म् ।
इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । सु॒ऽव॒ज्रा॒ । प्र । नः॒ । नव्ये॑भिः । ति॒र॒त॒म् । दे॒ष्णैः ॥गीःऽभिः । विप्रः । प्रऽमतिम् । इच्छमानः । ईट्टे । रयिम् । यशसम् । पूर्वऽभाजम् ।
इन्द्राग्नी इति । वृत्रऽहना । सुऽवज्रा । प्र । नः । नव्येभिः । तिरतम् । देष्णैः ॥gīḥ-bhíḥ ǀ vípraḥ ǀ prá-matim ǀ icchámānaḥ ǀ ī́ṭṭe ǀ rayím ǀ yaśásam ǀ pūrva-bhā́jam ǀ
índrāgnī íti ǀ vṛtra-hanā ǀ su-vajrā ǀ prá ǀ naḥ ǀ návyebhiḥ ǀ tiratam ǀ deṣṇáiḥ ǁgīḥ-bhiḥ ǀ vipraḥ ǀ pra-matim ǀ icchamānaḥ ǀ īṭṭe ǀ rayim ǀ yaśasam ǀ pūrva-bhājam ǀ
indrāgnī iti ǀ vṛtra-hanā ǀ su-vajrā ǀ pra ǀ naḥ ǀ navyebhiḥ ǀ tiratam ǀ deṣṇaiḥ ǁ7.93.4 Aṣṭaka 5.6.15.4Anuvāka 7.6.23
-
Ṛk 5
सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते ।
अदे॑वयुं वि॒दथे॑ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते |
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ||sám yánmahī́ mithatī́ spárdhamāne tanūrúcā śū́rasātā yátaite ǀ
ádevayum vidáthe devayúbhiḥ satrā́ hatam somasútā jánena ǁsaṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite |
adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena ||सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते॒ इति॑ ।
अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥सम् । यत् । मही इति । मिथती इति । स्पर्धमाने इति । तनूऽरुचा । शूरऽसाता । यतैते इति ।
अदेवऽयुम् । विदथे । देवयुऽभिः । सत्रा । हतम् । सोमऽसुता । जनेन ॥sám ǀ yát ǀ mahī́ íti ǀ mithatī́ íti ǀ spárdhamāne íti ǀ tanū-rúcā ǀ śū́ra-sātā ǀ yátaite íti ǀ
ádeva-yum ǀ vidáthe ǀ devayú-bhiḥ ǀ satrā́ ǀ hatam ǀ soma-sútā ǀ jánena ǁsam ǀ yat ǀ mahī iti ǀ mithatī iti ǀ spardhamāne iti ǀ tanū-rucā ǀ śūra-sātā ǀ yataite iti ǀ
adeva-yum ǀ vidathe ǀ devayu-bhiḥ ǀ satrā ǀ hatam ǀ soma-sutā ǀ janena ǁ7.93.5 Aṣṭaka 5.6.15.5Anuvāka 7.6.24
-
Ṛk 6
इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एंद्रा॑ग्नी सौमन॒साय॑ यातं ।
नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः॑ ॥इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् |
नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर् ववृतीय वाजैः ||imā́mu ṣú sómasutimúpa na éndrāgnī saumanasā́ya yātam ǀ
nū́ ciddhí parimamnā́the asmā́nā́ vām śáśvadbhirvavṛtīya vā́jaiḥ ǁimām u ṣu somasutim upa na endrāgnī saumanasāya yātam |
nū cid dhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ ||इ॒माम् । ऊं॒ इति॑ । सु । सोम॑ऽसुति॑म् । उप॑ । नः॒ । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ।
नु । चि॒त् । हि । प॒रि॒म॒म्नाथे॒ इति॑ प॒रि॒ऽम॒म्नाथे॑ । अ॒स्मान् । आ । वा॒म् । शश्व॑त्ऽभिः । व॒वृ॒ती॒य॒ । वाजैः॑ ॥इमाम् । ऊं इति । सु । सोमऽसुतिम् । उप । नः । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ।
नु । चित् । हि । परिमम्नाथे इति परिऽमम्नाथे । अस्मान् । आ । वाम् । शश्वत्ऽभिः । ववृतीय । वाजैः ॥imā́m ǀ ūṃ íti ǀ sú ǀ sóma-sutim ǀ úpa ǀ naḥ ǀ ā́ ǀ indrāgnī íti ǀ saumanasā́ya ǀ yātam ǀ
nú ǀ cit ǀ hí ǀ parimamnā́the íti pari-mamnā́the ǀ asmā́n ǀ ā́ ǀ vām ǀ śáśvat-bhiḥ ǀ vavṛtīya ǀ vā́jaiḥ ǁimām ǀ ūṃ iti ǀ su ǀ soma-sutim ǀ upa ǀ naḥ ǀ ā ǀ indrāgnī iti ǀ saumanasāya ǀ yātam ǀ
nu ǀ cit ǀ hi ǀ parimamnāthe iti pari-mamnāthe ǀ asmān ǀ ā ǀ vām ǀ śaśvat-bhiḥ ǀ vavṛtīya ǀ vājaiḥ ǁ7.93.6 Aṣṭaka 5.6.16.1Anuvāka 7.6.25
-
Ṛk 7
सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिंद्रं॑ वोचेः ।
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथंतु ॥सो अग्न एना नमसा समिद्धो ऽच्छा मित्रं वरुणम् इन्द्रं वोचेः |
यत् सीम् आगश् चकृमा तत् सु मृऌअ तद् अर्यमादितिः शिश्रथन्तु ||só agna enā́ námasā sámiddhó’cchā mitrám váruṇamíndram voceḥ ǀ
yátsīmā́gaścakṛmā́ tátsú mṛḷa tádaryamā́ditiḥ śiśrathantu ǁso agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ |
yat sīm āgaś cakṛmā tat su mṛḷa tad aryamāditiḥ śiśrathantu ||सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । सम्ऽइ॑द्धः । अच्छ॑ । मि॒त्रम् । वरु॑णम् । इन्द्र॑म् । वो॒चेः॒ ।
यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि॑तिः । शि॒श्र॒थ॒न्तु॒ ॥सः । अग्ने । एना । नमसा । सम्ऽइद्धः । अच्छ । मित्रम् । वरुणम् । इन्द्रम् । वोचेः ।
यत् । सीम् । आगः । चकृम । तत् । सु । मृळ । तत् । अर्यमा । अदितिः । शिश्रथन्तु ॥sáḥ ǀ agne ǀ enā́ ǀ námasā ǀ sám-iddhaḥ ǀ áccha ǀ mitrám ǀ váruṇam ǀ índram ǀ voceḥ ǀ
yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ tát ǀ sú ǀ mṛḷa ǀ tát ǀ aryamā́ ǀ áditiḥ ǀ śiśrathantu ǁsaḥ ǀ agne ǀ enā ǀ namasā ǀ sam-iddhaḥ ǀ accha ǀ mitram ǀ varuṇam ǀ indram ǀ voceḥ ǀ
yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ tat ǀ su ǀ mṛḷa ǀ tat ǀ aryamā ǀ aditiḥ ǀ śiśrathantu ǁ7.93.7 Aṣṭaka 5.6.16.2Anuvāka 7.6.26
-
Ṛk 8
ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।
मेंद्रो॑ नो॒ विष्णु॑र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् |
मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ||etā́ agna āśuṣāṇā́sa iṣṭī́ryuvóḥ sácābhyáśyāma vā́jān ǀ
méndro no víṣṇurmarútaḥ pári khyanyūyám pāta svastíbhiḥ sádā naḥ ǁetā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān |
mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ ||ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् ।
मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् ।
मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥etā́ḥ ǀ agne ǀ āśuṣāṇā́saḥ ǀ iṣṭī́ḥ ǀ yuvóḥ ǀ sácā ǀ abhí ǀ aśyāma ǀ vā́jān ǀ
mā́ ǀ índraḥ ǀ naḥ ǀ víṣṇuḥ ǀ marútaḥ ǀ pári ǀ khyan ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁetāḥ ǀ agne ǀ āśuṣāṇāsaḥ ǀ iṣṭīḥ ǀ yuvoḥ ǀ sacā ǀ abhi ǀ aśyāma ǀ vājān ǀ
mā ǀ indraḥ ǀ naḥ ǀ viṣṇuḥ ǀ marutaḥ ǀ pari ǀ khyan ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.93.8 Aṣṭaka 5.6.16.3Anuvāka 7.6.27
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.