Sūkta 11
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (2, 4); svarāṭpaṅkti (1); virāṭtrisṭup (3); nicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयंते ।
आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥महां अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते |
आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः सदेह ||mahā́m̐ asyadhvarásya praketó ná ṛté tvádamṛ́tā mādayante ǀ
ā́ víśvebhiḥ sarátham yāhi deváirnyágne hótā prathamáḥ sadehá ǁmahāṃ asy adhvarasya praketo na ṛte tvad amṛtā mādayante |
ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha ||म॒हान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः । न । ऋ॒ते । त्वत् । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ।
आ । विश्वे॑भिः । स॒ऽरथ॑म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता॑ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥महान् । असि । अध्वरस्य । प्रऽकेतः । न । ऋते । त्वत् । अमृताः । मादयन्ते ।
आ । विश्वेभिः । सऽरथम् । याहि । देवैः । नि । अग्ने । होता । प्रथमः । सद । इह ॥mahā́n ǀ asi ǀ adhvarásya ǀ pra-ketáḥ ǀ ná ǀ ṛté ǀ tvát ǀ amṛ́tāḥ ǀ mādayante ǀ
ā́ ǀ víśvebhiḥ ǀ sa-rátham ǀ yāhi ǀ deváiḥ ǀ ní ǀ agne ǀ hótā ǀ prathamáḥ ǀ sada ǀ ihá ǁmahān ǀ asi ǀ adhvarasya ǀ pra-ketaḥ ǀ na ǀ ṛte ǀ tvat ǀ amṛtāḥ ǀ mādayante ǀ
ā ǀ viśvebhiḥ ǀ sa-ratham ǀ yāhi ǀ devaiḥ ǀ ni ǀ agne ǀ hotā ǀ prathamaḥ ǀ sada ǀ iha ǁ7.11.1 Aṣṭaka 5.2.14.1Anuvāka 7.1.98
-
Ṛk 2
त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्मं॑तः॒ सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवंति ॥त्वाम् ईऌअते अजिरं दूत्याय हविष्मन्तः सदम् इन् मानुषासः |
यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति ||tvā́mīḷate ajirám dūtyā́ya havíṣmantaḥ sádamínmā́nuṣāsaḥ ǀ
yásya deváirā́sado barhíragné’hānyasmai sudínā bhavanti ǁtvām īḷate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ |
yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti ||त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या॑य । ह॒विष्म॑न्तः । सद॑म् । इत् । मानु॑षासः ।
यस्य॑ । दे॒वैः । आ । अस॑दः । ब॒र्हिः । अ॒ग्ने॒ । अहा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑ । भ॒व॒न्ति॒ ॥त्वाम् । ईळते । अजिरम् । दूत्याय । हविष्मन्तः । सदम् । इत् । मानुषासः ।
यस्य । देवैः । आ । असदः । बर्हिः । अग्ने । अहानि । अस्मै । सुऽदिना । भवन्ति ॥tvā́m ǀ īḷate ǀ ajirám ǀ dūtyā́ya ǀ havíṣmantaḥ ǀ sádam ǀ ít ǀ mā́nuṣāsaḥ ǀ
yásya ǀ deváiḥ ǀ ā́ ǀ ásadaḥ ǀ barhíḥ ǀ agne ǀ áhāni ǀ asmai ǀ su-dínā ǀ bhavanti ǁtvām ǀ īḷate ǀ ajiram ǀ dūtyāya ǀ haviṣmantaḥ ǀ sadam ǀ it ǀ mānuṣāsaḥ ǀ
yasya ǀ devaiḥ ǀ ā ǀ asadaḥ ǀ barhiḥ ǀ agne ǀ ahāni ǀ asmai ǀ su-dinā ǀ bhavanti ǁ7.11.2 Aṣṭaka 5.2.14.2Anuvāka 7.1.99
-
Ṛk 3
त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अं॒तर्दा॒शुषे॒ मर्त्या॑य ।
म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय |
मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ||tríścidaktóḥ prá cikiturvásūni tvé antárdāśúṣe mártyāya ǀ
manuṣvádagna ihá yakṣi devā́nbhávā no dūtó abhiśastipā́vā ǁtriś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya |
manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā ||त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू॑नि । त्वे इति॑ । अ॒न्तः । दा॒शुषे॑ । मर्त्या॑य ।
म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव॑ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒ऽपावा॑ ॥त्रिः । चित् । अक्तोः । प्र । चिकितुः । वसूनि । त्वे इति । अन्तः । दाशुषे । मर्त्याय ।
मनुष्वत् । अग्ने । इह । यक्षि । देवान् । भव । नः । दूतः । अभिशस्तिऽपावा ॥tríḥ ǀ cit ǀ aktóḥ ǀ prá ǀ cikituḥ ǀ vásūni ǀ tvé íti ǀ antáḥ ǀ dāśúṣe ǀ mártyāya ǀ
manuṣvát ǀ agne ǀ ihá ǀ yakṣi ǀ devā́n ǀ bháva ǀ naḥ ǀ dūtáḥ ǀ abhiśasti-pā́vā ǁtriḥ ǀ cit ǀ aktoḥ ǀ pra ǀ cikituḥ ǀ vasūni ǀ tve iti ǀ antaḥ ǀ dāśuṣe ǀ martyāya ǀ
manuṣvat ǀ agne ǀ iha ǀ yakṣi ǀ devān ǀ bhava ǀ naḥ ǀ dūtaḥ ǀ abhiśasti-pāvā ǁ7.11.3 Aṣṭaka 5.2.14.3Anuvāka 7.1.100
-
Ṛk 4
अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ ।
क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षंताथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य |
क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ||agnírīśe bṛható adhvarásyāgnírvíśvasya havíṣaḥ kṛtásya ǀ
krátum hyásya vásavo juṣántā́thā devā́ dadhire havyavā́ham ǁagnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya |
kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham ||अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ ।
क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥अग्निः । ईशे । बृहतः । अध्वरस्य । अग्निः । विश्वस्य । हविषः । कृतस्य ।
क्रतुम् । हि । अस्य । वसवः । जुषन्त । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥agníḥ ǀ īśe ǀ bṛhatáḥ ǀ adhvarásya ǀ agníḥ ǀ víśvasya ǀ havíṣaḥ ǀ kṛtásya ǀ
krátum ǀ hí ǀ asya ǀ vásavaḥ ǀ juṣánta ǀ átha ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǁagniḥ ǀ īśe ǀ bṛhataḥ ǀ adhvarasya ǀ agniḥ ǀ viśvasya ǀ haviṣaḥ ǀ kṛtasya ǀ
kratum ǀ hi ǀ asya ǀ vasavaḥ ǀ juṣanta ǀ atha ǀ devāḥ ǀ dadhire ǀ havya-vāham ǁ7.11.4 Aṣṭaka 5.2.14.4Anuvāka 7.1.101
-
Ṛk 5
आग्ने॑ वह हवि॒रद्या॑य दे॒वानिंद्र॑ज्येष्ठास इ॒ह मा॑दयंतां ।
इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् |
इमं यज्ञं दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः ||ā́gne vaha havirádyāya devā́níndrajyeṣṭhāsa ihá mādayantām ǀ
imám yajñám diví devéṣu dhehi yūyám pāta svastíbhiḥ sádā naḥ ǁāgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām |
imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ ||आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् ।
इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । अग्ने । वह । हविःऽअद्याय । देवान् । इन्द्रऽज्येष्ठासः । इह । मादयन्ताम् ।
इमम् । यज्ञम् । दिवि । देवेषु । धेहि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ā́ ǀ agne ǀ vaha ǀ haviḥ-ádyāya ǀ devā́n ǀ índra-jyeṣṭhāsaḥ ǀ ihá ǀ mādayantām ǀ
imám ǀ yajñám ǀ diví ǀ devéṣu ǀ dhehi ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁā ǀ agne ǀ vaha ǀ haviḥ-adyāya ǀ devān ǀ indra-jyeṣṭhāsaḥ ǀ iha ǀ mādayantām ǀ
imam ǀ yajñam ǀ divi ǀ deveṣu ǀ dhehi ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.11.5 Aṣṭaka 5.2.14.5Anuvāka 7.1.102
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.