Sūkta 81
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛtpaṅkti (4, 6); virāḍabṛhatī (1); bhurigbṛhatī (2); ārṣībṛhatī (3); nicṛdbṛhatī (5)
2nd set of styles bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
-
Ṛk 1
प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छंती॑ दुहि॒ता दि॒वः ।
अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥प्रत्य् उ अदर्श्य् आयत्य् उच्छन्ती दुहिता दिवः |
अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ||prátyu adarśyāyatyúcchántī duhitā́ diváḥ ǀ
ápo máhi vyayati cákṣase támo jyótiṣkṛṇoti sūnárī ǁpraty u adarśy āyaty ucchantī duhitā divaḥ |
apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī ||प्रति॑ । ऊं॒ इति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । उ॒च्छन्ती॑ । दु॒हि॒ता । दि॒वः ।
अपो॒ इति॑ । महि॑ । व्य॒य॒ति॒ । चक्ष॑से । तमः॑ । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ॥प्रति । ऊं इति । अदर्शि । आऽयती । उच्छन्ती । दुहिता । दिवः ।
अपो इति । महि । व्ययति । चक्षसे । तमः । ज्योतिः । कृणोति । सूनरी ॥práti ǀ ūṃ íti ǀ adarśi ǀ ā-yatī́ ǀ ucchántī ǀ duhitā́ ǀ diváḥ ǀ
ápo íti ǀ máhi ǀ vyayati ǀ cákṣase ǀ támaḥ ǀ jyótiḥ ǀ kṛṇoti ǀ sūnárī ǁprati ǀ ūṃ iti ǀ adarśi ǀ ā-yatī ǀ ucchantī ǀ duhitā ǀ divaḥ ǀ
apo iti ǀ mahi ǀ vyayati ǀ cakṣase ǀ tamaḥ ǀ jyotiḥ ǀ kṛṇoti ǀ sūnarī ǁ7.81.1 Aṣṭaka 5.6.1.1Anuvāka 7.5.57
-
Ṛk 2
उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥उद् उस्रियाः सृजते सूर्यः सचां उद्यन् नक्षत्रम् अर्चिवत् |
तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ||údusríyāḥ sṛjate sū́ryaḥ sácām̐ udyánnákṣatramarcivát ǀ
távéduṣo vyúṣi sū́ryasya ca sám bhakténa gamemahi ǁud usriyāḥ sṛjate sūryaḥ sacāṃ udyan nakṣatram arcivat |
taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi ||उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् ।
तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्ऽयत् । नक्षत्रम् । अर्चिऽवत् ।
तव । इत् । उषः । विऽउषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥út ǀ usríyāḥ ǀ sṛjate ǀ sū́ryaḥ ǀ sácā ǀ ut-yát ǀ nákṣatram ǀ arci-vát ǀ
táva ǀ ít ǀ uṣaḥ ǀ vi-úṣi ǀ sū́ryasya ǀ ca ǀ sám ǀ bhakténa ǀ gamemahi ǁut ǀ usriyāḥ ǀ sṛjate ǀ sūryaḥ ǀ sacā ǀ ut-yat ǀ nakṣatram ǀ arci-vat ǀ
tava ǀ it ǀ uṣaḥ ǀ vi-uṣi ǀ sūryasya ǀ ca ǀ sam ǀ bhaktena ǀ gamemahi ǁ7.81.2 Aṣṭaka 5.6.1.2Anuvāka 7.5.58
-
Ṛk 3
प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।
या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि |
या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ||práti tvā duhitardiva úṣo jīrā́ abhutsmahi ǀ
yā́ váhasi purú spārhám vananvati rátnam ná dāśúṣe máyaḥ ǁprati tvā duhitar diva uṣo jīrā abhutsmahi |
yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ ||प्रति॑ । त्वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । उषः॑ । जी॒राः । अ॒भु॒त्स्म॒हि॒ ।
या । वह॑सि । पु॒रु । स्पा॒र्हम् । व॒न॒न्ऽव॒ति॒ । रत्न॑म् । न । दा॒शुषे॑ । मयः॑ ॥प्रति । त्वा । दुहितः । दिवः । उषः । जीराः । अभुत्स्महि ।
या । वहसि । पुरु । स्पार्हम् । वनन्ऽवति । रत्नम् । न । दाशुषे । मयः ॥práti ǀ tvā ǀ duhitaḥ ǀ divaḥ ǀ úṣaḥ ǀ jīrā́ḥ ǀ abhutsmahi ǀ
yā́ ǀ váhasi ǀ purú ǀ spārhám ǀ vanan-vati ǀ rátnam ǀ ná ǀ dāśúṣe ǀ máyaḥ ǁprati ǀ tvā ǀ duhitaḥ ǀ divaḥ ǀ uṣaḥ ǀ jīrāḥ ǀ abhutsmahi ǀ
yā ǀ vahasi ǀ puru ǀ spārham ǀ vanan-vati ǀ ratnam ǀ na ǀ dāśuṣe ǀ mayaḥ ǁ7.81.3 Aṣṭaka 5.6.1.3Anuvāka 7.5.59
-
Ṛk 4
उ॒च्छंती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।
तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे |
तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः ||ucchántī yā́ kṛṇóṣi maṃhánā mahi prakhyái devi svárdṛśé ǀ
tásyāste ratnabhā́ja īmahe vayám syā́ma mātúrná sūnávaḥ ǁucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe |
tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ ||उ॒च्छन्ती॑ । या । कृ॒णोषि॑ । मं॒हना॑ । म॒हि॒ । प्र॒ऽख्यै । दे॒वि॒ । स्वः॑ । दृ॒शे ।
तस्याः॑ । ते॒ । र॒त्न॒ऽभाजः॑ । ई॒म॒हे॒ । व॒यम् । स्याम॑ । मा॒तुः । न । सू॒नवः॑ ॥उच्छन्ती । या । कृणोषि । मंहना । महि । प्रऽख्यै । देवि । स्वः । दृशे ।
तस्याः । ते । रत्नऽभाजः । ईमहे । वयम् । स्याम । मातुः । न । सूनवः ॥ucchántī ǀ yā́ ǀ kṛṇóṣi ǀ maṃhánā ǀ mahi ǀ pra-khyái ǀ devi ǀ sváḥ ǀ dṛśé ǀ
tásyāḥ ǀ te ǀ ratna-bhā́jaḥ ǀ īmahe ǀ vayám ǀ syā́ma ǀ mātúḥ ǀ ná ǀ sūnávaḥ ǁucchantī ǀ yā ǀ kṛṇoṣi ǀ maṃhanā ǀ mahi ǀ pra-khyai ǀ devi ǀ svaḥ ǀ dṛśe ǀ
tasyāḥ ǀ te ǀ ratna-bhājaḥ ǀ īmahe ǀ vayam ǀ syāma ǀ mātuḥ ǀ na ǀ sūnavaḥ ǁ7.81.4 Aṣṭaka 5.6.1.4Anuvāka 7.5.60
-
Ṛk 5
तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मं ।
यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् |
यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ||táccitrám rā́dha ā́ bharóṣo yáddīrghaśrúttamam ǀ
yátte divo duhitarmartabhójanam tádrāsva bhunájāmahai ǁtac citraṃ rādha ā bharoṣo yad dīrghaśruttamam |
yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai ||तत् । चि॒त्रम् । राधः॑ । आ । भ॒र॒ । उषः॑ । यत् । दी॒र्घ॒श्रुत्ऽत॑मम् ।
यत् । ते॒ । दि॒वः॒ । दु॒हि॒तः॒ । म॒र्त॒ऽभोज॑नम् । तत् । रा॒स्व॒ । भु॒नजा॑महै ॥तत् । चित्रम् । राधः । आ । भर । उषः । यत् । दीर्घश्रुत्ऽतमम् ।
यत् । ते । दिवः । दुहितः । मर्तऽभोजनम् । तत् । रास्व । भुनजामहै ॥tát ǀ citrám ǀ rā́dhaḥ ǀ ā́ ǀ bhara ǀ úṣaḥ ǀ yát ǀ dīrghaśrút-tamam ǀ
yát ǀ te ǀ divaḥ ǀ duhitaḥ ǀ marta-bhójanam ǀ tát ǀ rāsva ǀ bhunájāmahai ǁtat ǀ citram ǀ rādhaḥ ǀ ā ǀ bhara ǀ uṣaḥ ǀ yat ǀ dīrghaśrut-tamam ǀ
yat ǀ te ǀ divaḥ ǀ duhitaḥ ǀ marta-bhojanam ǀ tat ǀ rāsva ǀ bhunajāmahai ǁ7.81.5 Aṣṭaka 5.6.1.5Anuvāka 7.5.61
-
Ṛk 6
श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।
चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः |
चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः ||śrávaḥ sūríbhyo amṛ́tam vasutvanám vā́jām̐ asmábhyam gómataḥ ǀ
codayitrī́ maghónaḥ sūnṛ́tāvatyuṣā́ ucchadápa srídhaḥ ǁśravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṃ asmabhyaṃ gomataḥ |
codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ ||श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् । वाजा॑न् । अ॒स्मभ्य॑म् । गोऽम॑तः ।
चो॒द॒यि॒त्री । म॒घोनः॑ । सू॒नृता॑ऽवती । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् । वाजान् । अस्मभ्यम् । गोऽमतः ।
चोदयित्री । मघोनः । सूनृताऽवती । उषाः । उच्छत् । अप । स्रिधः ॥śrávaḥ ǀ sūrí-bhyaḥ ǀ amṛ́tam ǀ vasu-tvanám ǀ vā́jān ǀ asmábhyam ǀ gó-mataḥ ǀ
codayitrī́ ǀ maghónaḥ ǀ sūnṛ́tā-vatī ǀ uṣā́ḥ ǀ ucchat ǀ ápa ǀ srídhaḥ ǁśravaḥ ǀ sūri-bhyaḥ ǀ amṛtam ǀ vasu-tvanam ǀ vājān ǀ asmabhyam ǀ go-mataḥ ǀ
codayitrī ǀ maghonaḥ ǀ sūnṛtā-vatī ǀ uṣāḥ ǀ ucchat ǀ apa ǀ sridhaḥ ǁ7.81.6 Aṣṭaka 5.6.1.6Anuvāka 7.5.62
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.