Sūkta 86
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3-5, 8); virāṭtrisṭup (2, 7); ārṣītriṣṭup (6)
2nd set of styles triṣṭubh
-
Ṛk 1
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तंभ॒ रोद॑सी चिदु॒र्वी ।
प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हंतं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी चिद् उर्वी |
प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम् पप्रथच् च भूम ||dhī́rā tvásya mahinā́ janū́ṃṣi ví yástastámbha ródasī cidurvī́ ǀ
prá nā́kamṛṣvám nunude bṛhántam dvitā́ nákṣatram papráthacca bhū́ma ǁdhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī |
pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma ||धीरा॑ । तु । अ॒स्य॒ । म॒हि॒ना । ज॒नूंषि॑ । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ ।
प्र । नाक॑म् । ऋ॒ष्वम् । नु॒नु॒दे॒ । बृ॒हन्त॑म् । द्वि॒ता । नक्ष॑त्रम् । प॒प्रथ॑त् । च॒ । भूम॑ ॥धीरा । तु । अस्य । महिना । जनूंषि । वि । यः । तस्तम्भ । रोदसी इति । चित् । उर्वी इति ।
प्र । नाकम् । ऋष्वम् । नुनुदे । बृहन्तम् । द्विता । नक्षत्रम् । पप्रथत् । च । भूम ॥dhī́rā ǀ tú ǀ asya ǀ mahinā́ ǀ janū́ṃṣi ǀ ví ǀ yáḥ ǀ tastámbha ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ
prá ǀ nā́kam ǀ ṛṣvám ǀ nunude ǀ bṛhántam ǀ dvitā́ ǀ nákṣatram ǀ papráthat ǀ ca ǀ bhū́ma ǁdhīrā ǀ tu ǀ asya ǀ mahinā ǀ janūṃṣi ǀ vi ǀ yaḥ ǀ tastambha ǀ rodasī iti ǀ cit ǀ urvī iti ǀ
pra ǀ nākam ǀ ṛṣvam ǀ nunude ǀ bṛhantam ǀ dvitā ǀ nakṣatram ǀ paprathat ǀ ca ǀ bhūma ǁ7.86.1 Aṣṭaka 5.6.8.1Anuvāka 7.5.93
-
Ṛk 2
उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्वं१॒॑तर्वरु॑णे भुवानि ।
किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्यं॑ ॥उत स्वया तन्वा सं वदे तत् कदा न्व् अन्तर् वरुणे भुवानि |
किम् मे हव्यम् अहृणानो जुषेत कदा मृऌईकं सुमना अभि ख्यम् ||utá sváyā tanvā́ sám vade tátkadā́ nvántárváruṇe bhuvāni ǀ
kím me havyámáhṛṇāno juṣeta kadā́ mṛḷīkám sumánā abhí khyam ǁuta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni |
kim me havyam ahṛṇāno juṣeta kadā mṛḷīkaṃ sumanā abhi khyam ||उ॒त । स्वया॑ । त॒न्वा॑ । सम् । व॒दे॒ । तत् । क॒दा । नु । अ॒न्तः । वरु॑णे । भु॒वा॒नि॒ ।
किम् । मे॒ । ह॒व्यम् । अहृ॑णानः । जु॒षे॒त॒ । क॒दा । मृ॒ळी॒कम् । सु॒ऽमनाः॑ । अ॒भि । ख्य॒म् ॥उत । स्वया । तन्वा । सम् । वदे । तत् । कदा । नु । अन्तः । वरुणे । भुवानि ।
किम् । मे । हव्यम् । अहृणानः । जुषेत । कदा । मृळीकम् । सुऽमनाः । अभि । ख्यम् ॥utá ǀ sváyā ǀ tanvā́ ǀ sám ǀ vade ǀ tát ǀ kadā́ ǀ nú ǀ antáḥ ǀ váruṇe ǀ bhuvāni ǀ
kím ǀ me ǀ havyám ǀ áhṛṇānaḥ ǀ juṣeta ǀ kadā́ ǀ mṛḷīkám ǀ su-mánāḥ ǀ abhí ǀ khyam ǁuta ǀ svayā ǀ tanvā ǀ sam ǀ vade ǀ tat ǀ kadā ǀ nu ǀ antaḥ ǀ varuṇe ǀ bhuvāni ǀ
kim ǀ me ǀ havyam ǀ ahṛṇānaḥ ǀ juṣeta ǀ kadā ǀ mṛḷīkam ǀ su-manāḥ ǀ abhi ǀ khyam ǁ7.86.2 Aṣṭaka 5.6.8.2Anuvāka 7.5.94
-
Ṛk 3
पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छं॑ ।
स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् |
समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ||pṛcché tádéno varuṇa didṛ́kṣū́po emi cikitúṣo vipṛ́ccham ǀ
samānámínme kaváyaścidāhurayám ha túbhyam váruṇo hṛṇīte ǁpṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham |
samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte ||पृ॒च्छे । तत् । एनः॑ । व॒रु॒ण॒ । दि॒दृक्षु॑ । उपो॒ इति॑ । ए॒मि॒ । चि॒कि॒तुषः॑ । वि॒ऽपृच्छ॑म् ।
स॒मा॒नम् । इत् । मे॒ । क॒वयः॑ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य॑म् । वरु॑णः । हृ॒णी॒ते॒ ॥पृच्छे । तत् । एनः । वरुण । दिदृक्षु । उपो इति । एमि । चिकितुषः । विऽपृच्छम् ।
समानम् । इत् । मे । कवयः । चित् । आहुः । अयम् । ह । तुभ्यम् । वरुणः । हृणीते ॥pṛcché ǀ tát ǀ énaḥ ǀ varuṇa ǀ didṛ́kṣu ǀ úpo íti ǀ emi ǀ cikitúṣaḥ ǀ vi-pṛ́ccham ǀ
samānám ǀ ít ǀ me ǀ kaváyaḥ ǀ cit ǀ āhuḥ ǀ ayám ǀ ha ǀ túbhyam ǀ váruṇaḥ ǀ hṛṇīte ǁpṛcche ǀ tat ǀ enaḥ ǀ varuṇa ǀ didṛkṣu ǀ upo iti ǀ emi ǀ cikituṣaḥ ǀ vi-pṛccham ǀ
samānam ǀ it ǀ me ǀ kavayaḥ ǀ cit ǀ āhuḥ ǀ ayam ǀ ha ǀ tubhyam ǀ varuṇaḥ ǀ hṛṇīte ǁ7.86.3 Aṣṭaka 5.6.8.3Anuvāka 7.5.95
-
Ṛk 4
किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यं ।
प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑यां ॥किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् |
प्र तन् मे वोचो दूऌअभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् ||kímā́ga āsa varuṇa jyéṣṭham yátstotā́ram jíghāṃsasi sákhāyam ǀ
prá tánme voco dūḷabha svadhāvó’va tvānenā́ námasā turá iyām ǁkim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam |
pra tan me voco dūḷabha svadhāvo 'va tvānenā namasā tura iyām ||किम् । आगः॑ । आ॒स॒ । व॒रु॒ण॒ । ज्येष्ठ॑म् । यत् । स्तो॒तार॑म् । जिघां॑ससि । सखा॑यम् ।
प्र । तत् । मे॒ । वो॒चः॒ । दुः॒ऽद॒भ॒ । स्व॒धा॒ऽवः॒ । अव॑ । त्वा॒ । अ॒ने॒नाः । नम॑सा । तु॒रः । इ॒या॒म् ॥किम् । आगः । आस । वरुण । ज्येष्ठम् । यत् । स्तोतारम् । जिघांससि । सखायम् ।
प्र । तत् । मे । वोचः । दुःऽदभ । स्वधाऽवः । अव । त्वा । अनेनाः । नमसा । तुरः । इयाम् ॥kím ǀ ā́gaḥ ǀ āsa ǀ varuṇa ǀ jyéṣṭham ǀ yát ǀ stotā́ram ǀ jíghāṃsasi ǀ sákhāyam ǀ
prá ǀ tát ǀ me ǀ vocaḥ ǀ duḥ-dabha ǀ svadhā-vaḥ ǀ áva ǀ tvā ǀ anenā́ḥ ǀ námasā ǀ turáḥ ǀ iyām ǁkim ǀ āgaḥ ǀ āsa ǀ varuṇa ǀ jyeṣṭham ǀ yat ǀ stotāram ǀ jighāṃsasi ǀ sakhāyam ǀ
pra ǀ tat ǀ me ǀ vocaḥ ǀ duḥ-dabha ǀ svadhā-vaḥ ǀ ava ǀ tvā ǀ anenāḥ ǀ namasā ǀ turaḥ ǀ iyām ǁ7.86.4 Aṣṭaka 5.6.8.4Anuvāka 7.5.96
-
Ṛk 5
अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।
अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठं ॥अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः |
अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ||áva drugdhā́ni pítryā sṛjā nó’va yā́ vayám cakṛmā́ tanū́bhiḥ ǀ
áva rājanpaśutṛ́pam ná tāyúm sṛjā́ vatsám ná dā́mno vásiṣṭham ǁava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ |
ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham ||अव॑ । द्रु॒ग्धानि॑ । पित्र्या॑ । सृ॒ज॒ । नः॒ । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभिः॑ ।
अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः॑ । वसि॑ष्ठम् ॥अव । द्रुग्धानि । पित्र्या । सृज । नः । अव । या । वयम् । चकृम । तनूभिः ।
अव । राजन् । पशुऽतृपम् । न । तायुम् । सृज । वत्सम् । न । दाम्नः । वसिष्ठम् ॥áva ǀ drugdhā́ni ǀ pítryā ǀ sṛja ǀ naḥ ǀ áva ǀ yā́ ǀ vayám ǀ cakṛmá ǀ tanū́bhiḥ ǀ
áva ǀ rājan ǀ paśu-tṛ́pam ǀ ná ǀ tāyúm ǀ sṛjá ǀ vatsám ǀ ná ǀ dā́mnaḥ ǀ vásiṣṭham ǁava ǀ drugdhāni ǀ pitryā ǀ sṛja ǀ naḥ ǀ ava ǀ yā ǀ vayam ǀ cakṛma ǀ tanūbhiḥ ǀ
ava ǀ rājan ǀ paśu-tṛpam ǀ na ǀ tāyum ǀ sṛja ǀ vatsam ǀ na ǀ dāmnaḥ ǀ vasiṣṭham ǁ7.86.5 Aṣṭaka 5.6.8.5Anuvāka 7.5.97
-
Ṛk 6
न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।
अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः |
अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता ||ná sá svó dákṣo varuṇa dhrútiḥ sā́ súrā manyúrvibhī́dako ácittiḥ ǀ
ásti jyā́yānkánīyasa upāré svápnaścanédánṛtasya prayotā́ ǁna sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ |
asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā ||न । सः । स्वः । दक्षः॑ । व॒रु॒ण॒ । ध्रुतिः॑ । सा । सुरा॑ । म॒न्युः । वि॒ऽभीद॑कः । अचि॑त्तिः ।
अस्ति॑ । ज्याया॑न् । कनी॑यसः । उ॒प॒ऽअ॒रे । स्वप्नः॑ । च॒न । इत् । अनृ॑तस्य । प्र॒ऽयो॒ता ॥न । सः । स्वः । दक्षः । वरुण । ध्रुतिः । सा । सुरा । मन्युः । विऽभीदकः । अचित्तिः ।
अस्ति । ज्यायान् । कनीयसः । उपऽअरे । स्वप्नः । चन । इत् । अनृतस्य । प्रऽयोता ॥ná ǀ sáḥ ǀ sváḥ ǀ dákṣaḥ ǀ varuṇa ǀ dhrútiḥ ǀ sā́ ǀ súrā ǀ manyúḥ ǀ vi-bhī́dakaḥ ǀ ácittiḥ ǀ
ásti ǀ jyā́yān ǀ kánīyasaḥ ǀ upa-aré ǀ svápnaḥ ǀ caná ǀ ít ǀ ánṛtasya ǀ pra-yotā́ ǁna ǀ saḥ ǀ svaḥ ǀ dakṣaḥ ǀ varuṇa ǀ dhrutiḥ ǀ sā ǀ surā ǀ manyuḥ ǀ vi-bhīdakaḥ ǀ acittiḥ ǀ
asti ǀ jyāyān ǀ kanīyasaḥ ǀ upa-are ǀ svapnaḥ ǀ cana ǀ it ǀ anṛtasya ǀ pra-yotā ǁ7.86.6 Aṣṭaka 5.6.8.6Anuvāka 7.5.98
-
Ṛk 7
अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।
अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥अरं दासो न मीऌहुषे कराण्य् अहं देवाय भूर्णये ऽनागाः |
अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ||áram dāsó ná mīḷhúṣe karāṇyahám devā́ya bhū́rṇayé’nāgāḥ ǀ
ácetayadacíto devó aryó gṛ́tsam rāyé kavítaro junāti ǁaraṃ dāso na mīḷhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ |
acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti ||अर॑म् । दा॒सः । न । मी॒ळ्हुषे॑ । क॒रा॒णि॒ । अ॒हम् । दे॒वाय॑ । भूर्ण॑ये । अना॑गाः ।
अचे॑तयत् । अ॒चितः॑ । दे॒वः । अ॒र्यः । गृत्स॑म् । रा॒ये । क॒विऽत॑रः । जु॒ना॒ति॒ ॥अरम् । दासः । न । मीळ्हुषे । कराणि । अहम् । देवाय । भूर्णये । अनागाः ।
अचेतयत् । अचितः । देवः । अर्यः । गृत्सम् । राये । कविऽतरः । जुनाति ॥áram ǀ dāsáḥ ǀ ná ǀ mīḷhúṣe ǀ karāṇi ǀ ahám ǀ devā́ya ǀ bhū́rṇaye ǀ ánāgāḥ ǀ
ácetayat ǀ acítaḥ ǀ deváḥ ǀ aryáḥ ǀ gṛ́tsam ǀ rāyé ǀ kaví-taraḥ ǀ junāti ǁaram ǀ dāsaḥ ǀ na ǀ mīḷhuṣe ǀ karāṇi ǀ aham ǀ devāya ǀ bhūrṇaye ǀ anāgāḥ ǀ
acetayat ǀ acitaḥ ǀ devaḥ ǀ aryaḥ ǀ gṛtsam ǀ rāye ǀ kavi-taraḥ ǀ junāti ǁ7.86.7 Aṣṭaka 5.6.8.7Anuvāka 7.5.99
-
Ṛk 8
अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु ।
शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु |
शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः ||ayám sú túbhyam varuṇa svadhāvo hṛdí stóma úpaśritaścidastu ǀ
śám naḥ kṣéme śámu yóge no astu yūyám pāta svastíbhiḥ sádā naḥ ǁayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu |
śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ ||अ॒यम् । सु । तुभ्य॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । हृ॒दि । स्तोमः॑ । उप॑ऽश्रितः । चि॒त् । अ॒स्तु॒ ।
शम् । नः॒ । क्षेमे॑ । शम् । ऊं॒ इति॑ । योगे॑ । नः॒ । अ॒स्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अयम् । सु । तुभ्यम् । वरुण । स्वधाऽवः । हृदि । स्तोमः । उपऽश्रितः । चित् । अस्तु ।
शम् । नः । क्षेमे । शम् । ऊं इति । योगे । नः । अस्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ayám ǀ sú ǀ túbhyam ǀ varuṇa ǀ svadhā-vaḥ ǀ hṛdí ǀ stómaḥ ǀ úpa-śritaḥ ǀ cit ǀ astu ǀ
śám ǀ naḥ ǀ kṣéme ǀ śám ǀ ūṃ íti ǀ yóge ǀ naḥ ǀ astu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁayam ǀ su ǀ tubhyam ǀ varuṇa ǀ svadhā-vaḥ ǀ hṛdi ǀ stomaḥ ǀ upa-śritaḥ ǀ cit ǀ astu ǀ
śam ǀ naḥ ǀ kṣeme ǀ śam ǀ ūṃ iti ǀ yoge ǀ naḥ ǀ astu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.86.8 Aṣṭaka 5.6.8.8Anuvāka 7.5.100
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.