Ṛgveda · Maṇḍala 7

Sūkta 2

Agni · Hymn Āprī · Vasiṣṭha Maitrāvaruṇi · 11 ṛks

Link
Devatā देवता
1, 3: Agni; 2, 4-11: Hymn Āprī
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (3, 6-8, 10, 11); virāṭtrisṭup (1, 9); triṣṭup (2, 4); paṅktiḥ (5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् ।
    उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥

    जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं धूमम् ऋण्वन् |
    उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः सूर्यस्य ||

    juṣásva naḥ samídhamagne adyá śócā bṛhádyajatám dhūmámṛṇván ǀ
    úpa spṛśa divyám sā́nu stū́paiḥ sám raśmíbhistatanaḥ sū́ryasya ǁ

    juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan |
    upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya ||

    जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । अ॒ग्ने॒ । अ॒द्य । शोच॑ । बृ॒हत् । य॒ज॒तम् । धू॒मम् । ऋ॒ण्वन् ।
    उप॑ । स्पृ॒श॒ । दि॒व्यम् । सानु॑ । स्तूपैः॑ । सम् । र॒श्मिऽभिः॑ । त॒त॒नः॒ । सूर्य॑स्य ॥

    जुषस्व । नः । सम्ऽइधम् । अग्ने । अद्य । शोच । बृहत् । यजतम् । धूमम् । ऋण्वन् ।
    उप । स्पृश । दिव्यम् । सानु । स्तूपैः । सम् । रश्मिऽभिः । ततनः । सूर्यस्य ॥

    juṣásva ǀ naḥ ǀ sam-ídham ǀ agne ǀ adyá ǀ śóca ǀ bṛhát ǀ yajatám ǀ dhūmám ǀ ṛṇván ǀ
    úpa ǀ spṛśa ǀ divyám ǀ sā́nu ǀ stū́paiḥ ǀ sám ǀ raśmí-bhiḥ ǀ tatanaḥ ǀ sū́ryasya ǁ

    juṣasva ǀ naḥ ǀ sam-idham ǀ agne ǀ adya ǀ śoca ǀ bṛhat ǀ yajatam ǀ dhūmam ǀ ṛṇvan ǀ
    upa ǀ spṛśa ǀ divyam ǀ sānu ǀ stūpaiḥ ǀ sam ǀ raśmi-bhiḥ ǀ tatanaḥ ǀ sūryasya ǁ

    7.2.1 Aṣṭaka 5.2.1.1Anuvāka 7.1.26

  2. Ṛk 2

    नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।
    ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वदं॑ति दे॒वा उ॒भया॑नि ह॒व्या ॥

    नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः |
    ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ||

    nárāśáṃsasya mahimā́nameṣāmúpa stoṣāma yajatásya yajñáiḥ ǀ
    yé sukrátavaḥ śúcayo dhiyaṃdhā́ḥ svádanti devā́ ubháyāni havyā́ ǁ

    narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ |
    ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā ||

    नरा॒शंस॑स्य । म॒हि॒मान॑म् । ए॒षा॒म् । उप॑ । स्तो॒षा॒म॒ । य॒ज॒तस्य॑ । य॒ज्ञैः ।
    ये । सु॒ऽक्रत॑वः । शुच॑यः । धि॒य॒म्ऽधाः । स्वद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्या ॥

    नराशंसस्य । महिमानम् । एषाम् । उप । स्तोषाम । यजतस्य । यज्ञैः ।
    ये । सुऽक्रतवः । शुचयः । धियम्ऽधाः । स्वदन्ति । देवाः । उभयानि । हव्या ॥

    nárāśáṃsasya ǀ mahimā́nam ǀ eṣām ǀ úpa ǀ stoṣāma ǀ yajatásya ǀ yajñáiḥ ǀ
    yé ǀ su-krátavaḥ ǀ śúcayaḥ ǀ dhiyam-dhā́ḥ ǀ svádanti ǀ devā́ḥ ǀ ubháyāni ǀ havyā́ ǁ

    narāśaṃsasya ǀ mahimānam ǀ eṣām ǀ upa ǀ stoṣāma ǀ yajatasya ǀ yajñaiḥ ǀ
    ye ǀ su-kratavaḥ ǀ śucayaḥ ǀ dhiyam-dhāḥ ǀ svadanti ǀ devāḥ ǀ ubhayāni ǀ havyā ǁ

    7.2.2 Aṣṭaka 5.2.1.2Anuvāka 7.1.27

  3. Ṛk 3

    ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑मं॒तर्दू॒तं रोद॑सी सत्य॒वाचं॑ ।
    म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥

    ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी सत्यवाचम् |
    मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय सदम् इन् महेम ||

    īḷényam vo ásuram sudákṣamantárdūtám ródasī satyavā́cam ǀ
    manuṣvádagním mánunā sámiddham sámadhvarā́ya sádamínmahema ǁ

    īḷenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam |
    manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema ||

    ई॒ळेन्य॑म् । वः॒ । असु॑रम् । सु॒ऽदक्ष॑म् । अ॒न्तः । दू॒तम् । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाच॑म् ।
    म॒नु॒ष्वत् । अ॒ग्निम् । मनु॑ना । सम्ऽइ॑द्धम् । सम् । अ॒ध्व॒राय॑ । सद॑म् । इत् । म॒हे॒म॒ ॥

    ईळेन्यम् । वः । असुरम् । सुऽदक्षम् । अन्तः । दूतम् । रोदसी इति । सत्यऽवाचम् ।
    मनुष्वत् । अग्निम् । मनुना । सम्ऽइद्धम् । सम् । अध्वराय । सदम् । इत् । महेम ॥

    īḷényam ǀ vaḥ ǀ ásuram ǀ su-dákṣam ǀ antáḥ ǀ dūtám ǀ ródasī íti ǀ satya-vā́cam ǀ
    manuṣvát ǀ agním ǀ mánunā ǀ sám-iddham ǀ sám ǀ adhvarā́ya ǀ sádam ǀ ít ǀ mahema ǁ

    īḷenyam ǀ vaḥ ǀ asuram ǀ su-dakṣam ǀ antaḥ ǀ dūtam ǀ rodasī iti ǀ satya-vācam ǀ
    manuṣvat ǀ agnim ǀ manunā ǀ sam-iddham ǀ sam ǀ adhvarāya ǀ sadam ǀ it ǀ mahema ǁ

    7.2.3 Aṣṭaka 5.2.1.3Anuvāka 7.1.28

  4. Ṛk 4

    स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृं॑जते॒ नम॑सा ब॒र्हिर॒ग्नौ ।
    आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वं ॥

    सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ |
    आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम् ||

    saparyávo bháramāṇā abhijñú prá vṛñjate námasā barhíragnáu ǀ
    ājúhvānā ghṛtápṛṣṭham pṛ́ṣadvadádhvaryavo havíṣā marjayadhvam ǁ

    saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau |
    ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam ||

    स॒प॒र्यवः॑ । भर॑माणाः । अ॒भि॒ऽज्ञु । प्र । वृ॒ञ्ज॒ते॒ । नम॑सा । ब॒र्हिः । अ॒ग्नौ ।
    आ॒ऽजुह्वा॑नाः । घृ॒तऽपृ॑ष्ठम् । पृष॑त्ऽवत् । अध्व॑र्यवः । ह॒विषा॑ । म॒र्ज॒य॒ध्व॒म् ॥

    सपर्यवः । भरमाणाः । अभिऽज्ञु । प्र । वृञ्जते । नमसा । बर्हिः । अग्नौ ।
    आऽजुह्वानाः । घृतऽपृष्ठम् । पृषत्ऽवत् । अध्वर्यवः । हविषा । मर्जयध्वम् ॥

    saparyávaḥ ǀ bháramāṇāḥ ǀ abhi-jñú ǀ prá ǀ vṛñjate ǀ námasā ǀ barhíḥ ǀ agnáu ǀ
    ā-júhvānāḥ ǀ ghṛtá-pṛṣṭham ǀ pṛ́ṣat-vat ǀ ádhvaryavaḥ ǀ havíṣā ǀ marjayadhvam ǁ

    saparyavaḥ ǀ bharamāṇāḥ ǀ abhi-jñu ǀ pra ǀ vṛñjate ǀ namasā ǀ barhiḥ ǀ agnau ǀ
    ā-juhvānāḥ ǀ ghṛta-pṛṣṭham ǀ pṛṣat-vat ǀ adhvaryavaḥ ǀ haviṣā ǀ marjayadhvam ǁ

    7.2.4 Aṣṭaka 5.2.1.4Anuvāka 7.1.29

  5. Ṛk 5

    स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यंतोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता ।
    पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वंजन् ॥

    स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता |
    पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ||

    svādhyo ví dúro devayántó’śiśrayū rathayúrdevátātā ǀ
    pūrvī́ śíśum ná mātárā rihāṇé sámagrúvo ná sámaneṣvañjan ǁ

    svādhyo vi duro devayanto 'śiśrayū rathayur devatātā |
    pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan ||

    सु॒ऽआ॒ध्यः॑ । वि । दुरः॑ । दे॒व॒ऽयन्तः॑ । अशि॑श्रयुः । र॒थ॒ऽयुः । दे॒वऽता॑ता ।
    पू॒र्वी इति॑ । शिशु॑म् । न । मा॒तरा॑ । रि॒हा॒णे इति॑ । सम् । अ॒ग्रुवः॑ । न । सम॑नेषु । अ॒ञ्ज॒न् ॥

    सुऽआध्यः । वि । दुरः । देवऽयन्तः । अशिश्रयुः । रथऽयुः । देवऽताता ।
    पूर्वी इति । शिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन् ॥

    su-ādhyáḥ ǀ ví ǀ dúraḥ ǀ deva-yántaḥ ǀ áśiśrayuḥ ǀ ratha-yúḥ ǀ devá-tātā ǀ
    pūrvī́ íti ǀ śíśum ǀ ná ǀ mātárā ǀ rihāṇé íti ǀ sám ǀ agrúvaḥ ǀ ná ǀ sámaneṣu ǀ añjan ǁ

    su-ādhyaḥ ǀ vi ǀ duraḥ ǀ deva-yantaḥ ǀ aśiśrayuḥ ǀ ratha-yuḥ ǀ deva-tātā ǀ
    pūrvī iti ǀ śiśum ǀ na ǀ mātarā ǀ rihāṇe iti ǀ sam ǀ agruvaḥ ǀ na ǀ samaneṣu ǀ añjan ǁ

    7.2.5 Aṣṭaka 5.2.1.5Anuvāka 7.1.30

  6. Ṛk 6

    उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
    ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेतां ॥

    उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः |
    बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ||

    utá yóṣaṇe divyé mahī́ na uṣā́sānáktā sudúgheva dhenúḥ ǀ
    barhiṣádā puruhūté maghónī ā́ yajñíye suvitā́ya śrayetām ǁ

    uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ |
    barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām ||

    उ॒त । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । म॒ही इति॑ । नः॒ । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।
    ब॒र्हि॒ऽसदा॑ । पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञिये॒ इति॑ । सु॒वि॒ताय॑ । श्र॒ये॒ता॒म् ॥

    उत । योषणे इति । दिव्ये इति । मही इति । नः । उषसानक्ता । सुदुघाऽइव । धेनुः ।
    बर्हिऽसदा । पुरुहूते इति पुरुऽहूते । मघोनी इति । आ । यज्ञिये इति । सुविताय । श्रयेताम् ॥

    utá ǀ yóṣaṇe íti ǀ divyé íti ǀ mahī́ íti ǀ naḥ ǀ uṣásānáktā ǀ sudúghā-iva ǀ dhenúḥ ǀ
    barhi-sádā ǀ puruhūté íti puru-hūté ǀ maghónī íti ǀ ā́ ǀ yajñíye íti ǀ suvitā́ya ǀ śrayetām ǁ

    uta ǀ yoṣaṇe iti ǀ divye iti ǀ mahī iti ǀ naḥ ǀ uṣasānaktā ǀ sudughā-iva ǀ dhenuḥ ǀ
    barhi-sadā ǀ puruhūte iti puru-hūte ǀ maghonī iti ǀ ā ǀ yajñiye iti ǀ suvitāya ǀ śrayetām ǁ

    7.2.6 Aṣṭaka 5.2.2.1Anuvāka 7.1.31

  7. Ṛk 7

    विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै ।
    ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥

    विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै |
    ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ||

    víprā yajñéṣu mā́nuṣeṣu kārū́ mánye vām jātávedasā yájadhyai ǀ
    ūrdhvám no adhvarám kṛtam háveṣu tā́ devéṣu vanatho vā́ryāṇi ǁ

    viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai |
    ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi ||

    विप्रा॑ । य॒ज्ञेषु॑ । मानु॑षेषु । का॒रू इति॑ । मन्ये॑ । वा॒म् । जा॒तऽवे॑दसा । यज॑ध्यै ।
    ऊ॒र्ध्वम् । नः॒ । अ॒ध्व॒रम् । कृ॒त॒म् । हवे॑षु । ता । दे॒वेषु॑ । व॒न॒थः॒ । वार्या॑णि ॥

    विप्रा । यज्ञेषु । मानुषेषु । कारू इति । मन्ये । वाम् । जातऽवेदसा । यजध्यै ।
    ऊर्ध्वम् । नः । अध्वरम् । कृतम् । हवेषु । ता । देवेषु । वनथः । वार्याणि ॥

    víprā ǀ yajñéṣu ǀ mā́nuṣeṣu ǀ kārū́ íti ǀ mánye ǀ vām ǀ jātá-vedasā ǀ yájadhyai ǀ
    ūrdhvám ǀ naḥ ǀ adhvarám ǀ kṛtam ǀ háveṣu ǀ tā́ ǀ devéṣu ǀ vanathaḥ ǀ vā́ryāṇi ǁ

    viprā ǀ yajñeṣu ǀ mānuṣeṣu ǀ kārū iti ǀ manye ǀ vām ǀ jāta-vedasā ǀ yajadhyai ǀ
    ūrdhvam ǀ naḥ ǀ adhvaram ǀ kṛtam ǀ haveṣu ǀ tā ǀ deveṣu ǀ vanathaḥ ǀ vāryāṇi ǁ

    7.2.7 Aṣṭaka 5.2.2.2Anuvāka 7.1.32

  8. Ṛk 8

    आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
    सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥

    आ भारती भारतीभिः सजोषा इऌआ देवैर् मनुष्येभिर् अग्निः |
    सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ||

    ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḷā deváirmanuṣyébhiragníḥ ǀ
    sárasvatī sārasvatébhirarvā́k tisró devī́rbarhírédám sadantu ǁ

    ā bhāratī bhāratībhiḥ sajoṣā iḷā devair manuṣyebhir agniḥ |
    sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu ||

    आ । भार॑ती । भर॑तीभिः । स॒ऽजोषाः॑ । इळा॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।
    सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥

    आ । भारती । भरतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।
    सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥

    ā́ ǀ bhā́ratī ǀ bháratībhiḥ ǀ sa-jóṣāḥ ǀ íḷā ǀ deváiḥ ǀ manuṣyébhiḥ ǀ agníḥ ǀ
    sárasvatī ǀ sārasvatébhiḥ ǀ arvā́k ǀ tisráḥ ǀ devī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ sadantu ǁ

    ā ǀ bhāratī ǀ bharatībhiḥ ǀ sa-joṣāḥ ǀ iḷā ǀ devaiḥ ǀ manuṣyebhiḥ ǀ agniḥ ǀ
    sarasvatī ǀ sārasvatebhiḥ ǀ arvāk ǀ tisraḥ ǀ devīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ sadantu ǁ

    7.2.8 Aṣṭaka 5.2.2.3Anuvāka 7.1.33

  9. Ṛk 9

    तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
    यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥

    तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व |
    यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ||

    tánnasturī́pamádha poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva ǀ
    yáto vīráḥ karmaṇyáḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ǁ

    tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva |
    yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||

    तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।
    यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥

    तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व ।
    यतः । वीरः । कर्मण्यः । सुऽदक्षः । युक्तऽग्रावा । जायते । देवऽकामः ॥

    tát ǀ naḥ ǀ turī́pam ǀ ádha ǀ poṣayitnú ǀ déva ǀ tvaṣṭaḥ ǀ ví ǀ rarāṇáḥ ǀ syasvéti syasva ǀ
    yátaḥ ǀ vīráḥ ǀ karmaṇyáḥ ǀ su-dákṣaḥ ǀ yuktá-grāvā ǀ jā́yate ǀ devá-kāmaḥ ǁ

    tat ǀ naḥ ǀ turīpam ǀ adha ǀ poṣayitnu ǀ deva ǀ tvaṣṭaḥ ǀ vi ǀ rarāṇaḥ ǀ syasveti syasva ǀ
    yataḥ ǀ vīraḥ ǀ karmaṇyaḥ ǀ su-dakṣaḥ ǀ yukta-grāvā ǀ jāyate ǀ deva-kāmaḥ ǁ

    7.2.9 Aṣṭaka 5.2.2.4Anuvāka 7.1.34

  10. Ṛk 10

    वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
    सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥

    वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति |
    सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ||

    vánaspaté’va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti ǀ
    sédu hótā satyátaro yajāti yáthā devā́nām jánimāni véda ǁ

    vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti |
    sed u hotā satyataro yajāti yathā devānāṃ janimāni veda ||

    वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।
    सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥

    वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति ।
    सः । इत् । ऊं इति । होता । सत्यऽतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥

    vánaspate ǀ áva ǀ sṛja ǀ úpa ǀ devā́n ǀ agníḥ ǀ havíḥ ǀ śamitā́ ǀ sūdayāti ǀ
    sáḥ ǀ ít ǀ ūṃ íti ǀ hótā ǀ satyá-taraḥ ǀ yajāti ǀ yáthā ǀ devā́nām ǀ jánimāni ǀ véda ǁ

    vanaspate ǀ ava ǀ sṛja ǀ upa ǀ devān ǀ agniḥ ǀ haviḥ ǀ śamitā ǀ sūdayāti ǀ
    saḥ ǀ it ǀ ūṃ iti ǀ hotā ǀ satya-taraḥ ǀ yajāti ǀ yathā ǀ devānām ǀ janimāni ǀ veda ǁ

    7.2.10 Aṣṭaka 5.2.2.5Anuvāka 7.1.35

  11. Ṛk 11

    आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिंद्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।
    ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥

    आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः |
    बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ||

    ā́ yāhyagne samidhānó arvā́ṅíndreṇa deváiḥ sarátham turébhiḥ ǀ
    barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām ǁ

    ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ |
    barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām ||

    आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।
    ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

    आ । याहि । अग्ने । सम्ऽइधानः । अर्वाङ् । इन्द्रेण । देवैः । सऽरथम् । तुरेभिः ।
    बर्हिः । नः । आस्ताम् । अदितिः । सुऽपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥

    ā́ ǀ yāhi ǀ agne ǀ sam-idhānáḥ ǀ arvā́ṅ ǀ índreṇa ǀ deváiḥ ǀ sa-rátham ǀ turébhiḥ ǀ
    barhíḥ ǀ naḥ ǀ āstām ǀ áditiḥ ǀ su-putrā́ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁ

    ā ǀ yāhi ǀ agne ǀ sam-idhānaḥ ǀ arvāṅ ǀ indreṇa ǀ devaiḥ ǀ sa-ratham ǀ turebhiḥ ǀ
    barhiḥ ǀ naḥ ǀ āstām ǀ aditiḥ ǀ su-putrā ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ

    7.2.11 Aṣṭaka 5.2.2.6Anuvāka 7.1.36

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.2 · Agni · Hymn Āprī

Interpretations

Sri Aurobindo

Ṛk 1

Cleave to our fuel, O Fire, today, illumine the vast5 pouring thy smoke of sacrifice, touch the peak celestial with thy up piled masses, then stretch them out to unite with the rays of the Sun. (302)

Ṛk 2

Let us invoke, by the sacrifices of the lord of sacrifice who voices the godheads, the greatness of these who are pure, who are perfect in will, who are founders of the Thought— gods, they take the taste of both kinds of offerings. (302)

Ṛk 3

Fire who is to be prayed by you the mighty, the wise of understanding, the messenger between earth and heaven, whose speech is truth kindled as the human by the thinking man, let us greaten ever for the pilgrim-sacrifice. (302)

Ṛk 4

Desiring to serve, bringing the offering, kneeling with prostration they pluck the sacred grass; O priests of the pilgrim sacrifice, casting it into the Fire speckled, with luminous back, brighten him with the offering. (302)

Ṛk 5

The seekers of the godhead perfected in their thinking have come with yoked chariots and flung wide open the doors in their formation of the godheads, they have anointed him as if the two ancient Mothers caressing their child, as if rivers moving through level spaces. (303)

Ṛk 6

May too dawn and night, matrons great and divine, like good milch cows, queens of sacrifice, queens of plenty called by many seekers, sit on the sacred grass and lodge with us for our happiness.6 (303)

Ṛk 7

I meditate on you, O ye two illumined Seers, doers of the work in our human sacrifices, knowers of all things born, for sacrifice; make high our pilgrim-sacrifice when we call: you win our desirable things in the gods. (303)

Ṛk 8

In unison may Bharati with her Muses of invocation, Ila with gods and men, and Fire, Saraswati with her powers of inspiration come down to us, the three goddesses sit upon this seat of sacrifice. (303)

Ṛk 9

O divine maker of forms who hast the utter rapture, cast upon us that supreme transcendence, cause of our growth, from which is born in us the hero ever active with wise discernment, the seeker of the gods who sets to work the stone of the wine-pressing. (303)

Ṛk 10

O tree, release thy yield to the gods; Fire the achiever of the work speeds the offering on its way. It is he who does worship as the priest of the call, the more true in his act because he knows the birth of the gods. (304)

Ṛk 11

Come down to us, O Fire, high-kindled, in one chariot with Indra and swiftly journeying gods; let Aditi, mother of mighty sons, sit on the sacred grass, let the gods, the immortals, take rapture in Swaha. (304)