Sūkta 74
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles ārṣībhurigbṛhatī (2, 4, 6); nicṛdbṛhatī (1, 3); ārṣībṛhatī (5)
2nd set of styles bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
-
Ṛk 1
इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वंते अश्विना ।
अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना |
अयं वाम् अह्वे ऽवसे शचीवसू विशं-विशं हि गच्छथः ||imā́ u vām díviṣṭaya usrā́ havante aśvinā ǀ
ayám vāmahvé’vase śacīvasū víśaṃviśam hí gácchathaḥ ǁimā u vāṃ diviṣṭaya usrā havante aśvinā |
ayaṃ vām ahve 'vase śacīvasū viśaṃ-viśaṃ hi gacchathaḥ ||इ॒माः । ऊं॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ।
अ॒यम् । वा॒म् । अ॒ह्वे॒ । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥इमाः । ऊं इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना ।
अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीऽवसू । विशम्ऽविशम् । हि । गच्छथः ॥imā́ḥ ǀ ūṃ íti ǀ vām ǀ díviṣṭayaḥ ǀ usrā́ ǀ havante ǀ aśvinā ǀ
ayám ǀ vām ǀ ahve ǀ ávase ǀ śacīvasū íti śacī-vasū ǀ víśam-viśam ǀ hí ǀ gácchathaḥ ǁimāḥ ǀ ūṃ iti ǀ vām ǀ diviṣṭayaḥ ǀ usrā ǀ havante ǀ aśvinā ǀ
ayam ǀ vām ǀ ahve ǀ avase ǀ śacīvasū iti śacī-vasū ǀ viśam-viśam ǀ hi ǀ gacchathaḥ ǁ7.74.1 Aṣṭaka 5.5.21.1Anuvāka 7.5.17
-
Ṛk 2
यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते ।
अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥युवं चित्रं ददथुर् भोजनं नरा चोदेथां सूनृतावते |
अर्वाग् रथं समनसा नि यच्छतम् पिबतं सोम्यम् मधु ||yuvám citrám dadathurbhójanam narā códethām sūnṛ́tāvate ǀ
arvā́grátham sámanasā ní yacchatam píbatam somyám mádhu ǁyuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate |
arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu ||यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते ।
अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृताऽवते ।
अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥yuvám ǀ citrám ǀ dadathuḥ ǀ bhójanam ǀ narā ǀ códethām ǀ sūnṛ́tā-vate ǀ
arvā́k ǀ rátham ǀ sá-manasā ǀ ní ǀ yacchatam ǀ píbatam ǀ somyám ǀ mádhu ǁyuvam ǀ citram ǀ dadathuḥ ǀ bhojanam ǀ narā ǀ codethām ǀ sūnṛtā-vate ǀ
arvāk ǀ ratham ǀ sa-manasā ǀ ni ǀ yacchatam ǀ pibatam ǀ somyam ǀ madhu ǁ7.74.2 Aṣṭaka 5.5.21.2Anuvāka 7.5.18
-
Ṛk 3
आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना ।
दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तं ॥आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना |
दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ||ā́ yātamúpa bhūṣatam mádhvaḥ pibatamaśvinā ǀ
dugdhám páyo vṛṣaṇā jenyāvasū mā́ no mardhiṣṭamā́ gatam ǁā yātam upa bhūṣatam madhvaḥ pibatam aśvinā |
dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam ||आ । या॒त॒म् । उप॑ । भू॒ष॒त॒म् । मध्वः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ।
दु॒ग्धम् । पयः॑ । वृ॒ष॒णा॒ । जे॒न्या॒व॒सू॒ इति॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् ॥आ । यातम् । उप । भूषतम् । मध्वः । पिबतम् । अश्विना ।
दुग्धम् । पयः । वृषणा । जेन्यावसू इति । मा । नः । मर्धिष्टम् । आ । गतम् ॥ā́ ǀ yātam ǀ úpa ǀ bhūṣatam ǀ mádhvaḥ ǀ pibatam ǀ aśvinā ǀ
dugdhám ǀ páyaḥ ǀ vṛṣaṇā ǀ jenyāvasū íti ǀ mā́ ǀ naḥ ǀ mardhiṣṭam ǀ ā́ ǀ gatam ǁā ǀ yātam ǀ upa ǀ bhūṣatam ǀ madhvaḥ ǀ pibatam ǀ aśvinā ǀ
dugdham ǀ payaḥ ǀ vṛṣaṇā ǀ jenyāvasū iti ǀ mā ǀ naḥ ǀ mardhiṣṭam ǀ ā ǀ gatam ǁ7.74.3 Aṣṭaka 5.5.21.3Anuvāka 7.5.19
-
Ṛk 4
अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीयं॑ति॒ बिभ्र॑तः ।
म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥अश्वासो ये वाम् उप दाशुषो गृहं युवां दीयन्ति बिभ्रतः |
मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू ||áśvāso yé vāmúpa dāśúṣo gṛhám yuvā́m dī́yanti bíbhrataḥ ǀ
makṣūyúbhirnarā háyebhiraśvinā́ devā yātamasmayū́ ǁaśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ |
makṣūyubhir narā hayebhir aśvinā devā yātam asmayū ||अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः ।
म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥अश्वासः । ये । वाम् । उप । दाशुषः । गृहम् । युवाम् । दीयन्ति । बिभ्रतः ।
मक्षुयुऽभिः । नरा । हयेभिः । अश्विना । आ । देवा । यातम् । अस्मयू इत्यस्मऽयू ॥áśvāsaḥ ǀ yé ǀ vām ǀ úpa ǀ dāśúṣaḥ ǀ gṛhám ǀ yuvā́m ǀ dī́yanti ǀ bíbhrataḥ ǀ
makṣuyú-bhiḥ ǀ narā ǀ háyebhiḥ ǀ aśvinā ǀ ā́ ǀ devā ǀ yātam ǀ asmayū́ ítyasma-yū́ ǁaśvāsaḥ ǀ ye ǀ vām ǀ upa ǀ dāśuṣaḥ ǀ gṛham ǀ yuvām ǀ dīyanti ǀ bibhrataḥ ǀ
makṣuyu-bhiḥ ǀ narā ǀ hayebhiḥ ǀ aśvinā ǀ ā ǀ devā ǀ yātam ǀ asmayū ityasma-yū ǁ7.74.4 Aṣṭaka 5.5.21.4Anuvāka 7.5.20
-
Ṛk 5
अधा॑ ह॒ यंतो॑ अ॒श्विना॒ पृक्षः॑ सचंत सू॒रयः॑ ।
ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः |
ता यंसतो मघवद्भ्यो ध्रुवं यशश् छर्दिर् अस्मभ्यं नासत्या ||ádhā ha yánto aśvínā pṛ́kṣaḥ sacanta sūráyaḥ ǀ
tā́ yaṃsato maghávadbhyo dhruvám yáśaśchardírasmábhyam nā́satyā ǁadhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ |
tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā ||अध॑ । ह॒ । यन्तः॑ । अ॒श्विना॑ । पृक्षः॑ । स॒च॒न्त॒ । सू॒रयः॑ ।
ता । यं॒स॒तः॒ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । यशः॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । नास॑त्या ॥अध । ह । यन्तः । अश्विना । पृक्षः । सचन्त । सूरयः ।
ता । यंसतः । मघवत्ऽभ्यः । ध्रुवम् । यशः । छर्दिः । अस्मभ्यम् । नासत्या ॥ádha ǀ ha ǀ yántaḥ ǀ aśvínā ǀ pṛ́kṣaḥ ǀ sacanta ǀ sūráyaḥ ǀ
tā́ ǀ yaṃsataḥ ǀ maghávat-bhyaḥ ǀ dhruvám ǀ yáśaḥ ǀ chardíḥ ǀ asmábhyam ǀ nā́satyā ǁadha ǀ ha ǀ yantaḥ ǀ aśvinā ǀ pṛkṣaḥ ǀ sacanta ǀ sūrayaḥ ǀ
tā ǀ yaṃsataḥ ǀ maghavat-bhyaḥ ǀ dhruvam ǀ yaśaḥ ǀ chardiḥ ǀ asmabhyam ǀ nāsatyā ǁ7.74.5 Aṣṭaka 5.5.21.5Anuvāka 7.5.21
-
Ṛk 6
प्र ये य॒युर॑वृ॒कासो॒ रथा॑ इव नृपा॒तारो॒ जना��नां ।
उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यंति सुक्षि॒तिं ॥प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् |
उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम् ||prá yé yayúravṛkā́so ráthā iva nṛpātā́ro jánānām ǀ
utá svéna śávasā śūśuvurnára utá kṣiyanti sukṣitím ǁpra ye yayur avṛkāso rathā iva nṛpātāro janānām |
uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim ||प्र । ये । य॒युः । अ॒वृ॒कासः । रथाः॑ऽइव । नृ॒ऽपा॒तारः॑ । जना॑नाम् ।
उ॒त । स्वेन॑ । शव॑सा । शू॒शु॒वुः॒ । नरः॑ । उ॒त । क्षि॒य॒न्ति॒ । सु॒ऽक्षि॒तिम् ॥प्र । ये । ययुः । अवृकासः । रथाःऽइव । नृऽपातारः । जनानाम् ।
उत । स्वेन । शवसा । शूशुवुः । नरः । उत । क्षियन्ति । सुऽक्षितिम् ॥prá ǀ yé ǀ yayúḥ ǀ avṛkā́sáḥ ǀ ráthāḥ-iva ǀ nṛ-pātā́raḥ ǀ jánānām ǀ
utá ǀ svéna ǀ śávasā ǀ śūśuvuḥ ǀ náraḥ ǀ utá ǀ kṣiyanti ǀ su-kṣitím ǁpra ǀ ye ǀ yayuḥ ǀ avṛkāsaḥ ǀ rathāḥ-iva ǀ nṛ-pātāraḥ ǀ janānām ǀ
uta ǀ svena ǀ śavasā ǀ śūśuvuḥ ǀ naraḥ ǀ uta ǀ kṣiyanti ǀ su-kṣitim ǁ7.74.6 Aṣṭaka 5.5.21.6Anuvāka 7.5.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.