Sūkta 52
- Devatā देवता
- Ādityās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles svarāṭpaṅkti (1, 3); nicṛttriṣṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा ।
सने॑म मित्रावरुणा॒ सनं॑तो॒ भवे॑म द्यावापृथिवी॒ भवं॑तः ॥आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा |
सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ||ādityā́so áditayaḥ syāma pū́rdevatrā́ vasavo martyatrā́ ǀ
sánema mitrāvaruṇā sánanto bhávema dyāvāpṛthivī bhávantaḥ ǁādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā |
sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ ||आ॒दि॒त्यासः॑ । अदि॑तयः । स्या॒म॒ । पूः । दे॒व॒ऽत्रा । व॒स॒वः॒ । म॒र्त्य॒ऽत्रा ।
सने॑म । मि॒त्रा॒व॒रु॒णा॒ । सन॑न्तः । भवे॑म । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भव॑न्तः ॥आदित्यासः । अदितयः । स्याम । पूः । देवऽत्रा । वसवः । मर्त्यऽत्रा ।
सनेम । मित्रावरुणा । सनन्तः । भवेम । द्यावापृथिवी इति । भवन्तः ॥ādityā́saḥ ǀ áditayaḥ ǀ syāma ǀ pū́ḥ ǀ deva-trā́ ǀ vasavaḥ ǀ martya-trā́ ǀ
sánema ǀ mitrāvaruṇā ǀ sánantaḥ ǀ bhávema ǀ dyāvāpṛthivī íti ǀ bhávantaḥ ǁādityāsaḥ ǀ aditayaḥ ǀ syāma ǀ pūḥ ǀ deva-trā ǀ vasavaḥ ǀ martya-trā ǀ
sanema ǀ mitrāvaruṇā ǀ sanantaḥ ǀ bhavema ǀ dyāvāpṛthivī iti ǀ bhavantaḥ ǁ7.52.1 Aṣṭaka 5.4.19.1Anuvāka 7.3.130
-
Ṛk 2
मि॒त्रस्तन्नो॒ वरु॑णो मामहंत॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः ।
मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः |
मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे ||mitrástánno váruṇo māmahanta śárma tokā́ya tánayāya gopā́ḥ ǀ
mā́ vo bhujemānyájātaméno mā́ tátkarma vasavo yáccáyadhve ǁmitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ |
mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve ||मि॒त्रः । तत् । नः॒ । वरु॑णः । म॒म॒ह॒न्त॒ । शर्म॑ । तो॒काय॑ । तन॑याय । गो॒पाः ।
मा । वः॒ । भु॒जे॒म॒ । अ॒न्यऽजा॑तम् । एनः॑ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ॥मित्रः । तत् । नः । वरुणः । ममहन्त । शर्म । तोकाय । तनयाय । गोपाः ।
मा । वः । भुजेम । अन्यऽजातम् । एनः । मा । तत् । कर्म । वसवः । यत् । चयध्वे ॥mitráḥ ǀ tát ǀ naḥ ǀ váruṇaḥ ǀ mamahanta ǀ śárma ǀ tokā́ya ǀ tánayāya ǀ gopā́ḥ ǀ
mā́ ǀ vaḥ ǀ bhujema ǀ anyá-jātam ǀ énaḥ ǀ mā́ ǀ tát ǀ karma ǀ vasavaḥ ǀ yát ǀ cáyadhve ǁmitraḥ ǀ tat ǀ naḥ ǀ varuṇaḥ ǀ mamahanta ǀ śarma ǀ tokāya ǀ tanayāya ǀ gopāḥ ǀ
mā ǀ vaḥ ǀ bhujema ǀ anya-jātam ǀ enaḥ ǀ mā ǀ tat ǀ karma ǀ vasavaḥ ǀ yat ǀ cayadhve ǁ7.52.2 Aṣṭaka 5.4.19.2Anuvāka 7.3.131
-
Ṛk 3
तु॒र॒ण्यवोऽंगि॑रसो नक्षंत॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः ।
पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषंत ॥तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः |
पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त ||turaṇyávó’ṅgiraso nakṣanta rátnam devásya savitúriyānā́ḥ ǀ
pitā́ ca tánno mahā́nyájatro víśve devā́ḥ sámanaso juṣanta ǁturaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ |
pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta ||तु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः ।
पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥तुरण्यवः । अङ्गिरसः । नक्षन्त । रत्नम् । देवस्य । सवितुः । इयानाः ।
पिता । च । तत् । नः । महान् । यजत्रः । विश्वे । देवाः । सऽमनसः । जुषन्त ॥turaṇyávaḥ ǀ áṅgirasaḥ ǀ nakṣanta ǀ rátnam ǀ devásya ǀ savitúḥ ǀ iyānā́ḥ ǀ
pitā́ ǀ ca ǀ tát ǀ naḥ ǀ mahā́n ǀ yájatraḥ ǀ víśve ǀ devā́ḥ ǀ sá-manasaḥ ǀ juṣanta ǁturaṇyavaḥ ǀ aṅgirasaḥ ǀ nakṣanta ǀ ratnam ǀ devasya ǀ savituḥ ǀ iyānāḥ ǀ
pitā ǀ ca ǀ tat ǀ naḥ ǀ mahān ǀ yajatraḥ ǀ viśve ǀ devāḥ ǀ sa-manasaḥ ǀ juṣanta ǁ7.52.3 Aṣṭaka 5.4.19.3Anuvāka 7.3.132
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.