Sūkta 49
- Devatā देवता
- 1, 2, 4: Apas; 3: Apas, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 3); nicṛttriṣṭup (1); virāṭtrisṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना यं॒त्यनि॑विशमानाः ।
इंद्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः |
इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ||samudrájyeṣṭhāḥ salilásya mádhyātpunānā́ yantyániviśamānāḥ ǀ
índro yā́ vajrī́ vṛṣabhó rarā́da tā́ ā́po devī́rihá mā́mavantu ǁsamudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ |
indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu ||स॒मु॒द्रऽज्ये॑ष्ठाः । स॒लि॒लस्य॑ । मध्या॑त् । पु॒ना॒नाः । य॒न्ति॒ । अनि॑ऽविशमानाः ।
इन्द्रः॑ । या । व॒ज्री । वृ॒ष॒भः । र॒राद॑ । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥समुद्रऽज्येष्ठाः । सलिलस्य । मध्यात् । पुनानाः । यन्ति । अनिऽविशमानाः ।
इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥samudrá-jyeṣṭhāḥ ǀ salilásya ǀ mádhyāt ǀ punānā́ḥ ǀ yanti ǀ áni-viśamānāḥ ǀ
índraḥ ǀ yā́ ǀ vajrī́ ǀ vṛṣabháḥ ǀ rarā́da ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁsamudra-jyeṣṭhāḥ ǀ salilasya ǀ madhyāt ǀ punānāḥ ǀ yanti ǀ ani-viśamānāḥ ǀ
indraḥ ǀ yā ǀ vajrī ǀ vṛṣabhaḥ ǀ rarāda ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ7.49.1 Aṣṭaka 5.4.16.1Anuvāka 7.3.119
-
Ṛk 2
या आपो॑ दि॒व्या उ॒त वा॒ स्रवं॑ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।
स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः |
समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ||yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṃjā́ḥ ǀ
samudrā́rthā yā́ḥ śúcayaḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ǁyā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ |
samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu ||याः । आपः॑ । दि॒व्याः । उ॒त । वा॒ । स्रव॑न्ति । ख॒नित्रि॑माः । उ॒त । वा॒ । याः । स्व॒य॒म्ऽजाः ।
स॒मु॒द्रऽअ॑र्थाः । याः । शुच॑यः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥याः । आपः । दिव्याः । उत । वा । स्रवन्ति । खनित्रिमाः । उत । वा । याः । स्वयम्ऽजाः ।
समुद्रऽअर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥yā́ḥ ǀ ā́paḥ ǀ divyā́ḥ ǀ utá ǀ vā ǀ srávanti ǀ khanítrimāḥ ǀ utá ǀ vā ǀ yā́ḥ ǀ svayam-jā́ḥ ǀ
samudrá-arthāḥ ǀ yā́ḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁyāḥ ǀ āpaḥ ǀ divyāḥ ǀ uta ǀ vā ǀ sravanti ǀ khanitrimāḥ ǀ uta ǀ vā ǀ yāḥ ǀ svayam-jāḥ ǀ
samudra-arthāḥ ǀ yāḥ ǀ śucayaḥ ǀ pāvakāḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ7.49.2 Aṣṭaka 5.4.16.2Anuvāka 7.3.120
-
Ṛk 3
यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒जना॑नां ।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् |
मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु ||yā́sām rā́jā váruṇo yā́ti mádhye satyānṛté avapáśyañjánānām ǀ
madhuścútaḥ śúcayo yā́ḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ǁyāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām |
madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu ||यासा॑म् । राजा॑ । वरु॑णः । याति॑ । मध्ये॑ । स॒त्या॒नृ॒ते इति॑ । अ॒व॒ऽपश्य॑न् । जना॑नाम् ।
म॒धु॒ऽश्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति । अवऽपश्यन् । जनानाम् ।
मधुऽश्चुतः । शुचयः । याः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥yā́sām ǀ rā́jā ǀ váruṇaḥ ǀ yā́ti ǀ mádhye ǀ satyānṛté íti ǀ ava-páśyan ǀ jánānām ǀ
madhu-ścútaḥ ǀ śúcayaḥ ǀ yā́ḥ ǀ pāvakā́ḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁyāsām ǀ rājā ǀ varuṇaḥ ǀ yāti ǀ madhye ǀ satyānṛte iti ǀ ava-paśyan ǀ janānām ǀ
madhu-ścutaḥ ǀ śucayaḥ ǀ yāḥ ǀ pāvakāḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ7.49.3 Aṣṭaka 5.4.16.3Anuvāka 7.3.121
-
Ṛk 4
यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मदं॑ति ।
वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति |
वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु ||yā́su rā́jā váruṇo yā́su sómo víśve devā́ yā́sū́rjam mádanti ǀ
vaiśvānaró yā́svagníḥ práviṣṭastā́ ā́po devī́rihá mā́mavantu ǁyāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti |
vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu ||यासु॑ । राजा॑ । वरु॑णः । यासु॑ । सोमः॑ । विश्वे॑ । दे॒वाः । यासु॑ । ऊर्ज॑म् । मद॑न्ति ।
वै॒श्वा॒न॒रः । यासु॑ । अ॒ग्निः । प्रऽवि॑ष्टः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥यासु । राजा । वरुणः । यासु । सोमः । विश्वे । देवाः । यासु । ऊर्जम् । मदन्ति ।
वैश्वानरः । यासु । अग्निः । प्रऽविष्टः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥yā́su ǀ rā́jā ǀ váruṇaḥ ǀ yā́su ǀ sómaḥ ǀ víśve ǀ devā́ḥ ǀ yā́su ǀ ū́rjam ǀ mádanti ǀ
vaiśvānaráḥ ǀ yā́su ǀ agníḥ ǀ prá-viṣṭaḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁyāsu ǀ rājā ǀ varuṇaḥ ǀ yāsu ǀ somaḥ ǀ viśve ǀ devāḥ ǀ yāsu ǀ ūrjam ǀ madanti ǀ
vaiśvānaraḥ ǀ yāsu ǀ agniḥ ǀ pra-viṣṭaḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ7.49.4 Aṣṭaka 5.4.16.4Anuvāka 7.3.122
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.