Ṛk 7.49.2
Saṃhitā
या आपो॑ दि॒व्या उ॒त वा॒ स्रवं॑ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।
स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः |
समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ||
yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṃjā́ḥ ǀ
samudrā́rthā yā́ḥ śúcayaḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ǁ
yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ |
samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu ||
Padapāṭha
याः । आपः॑ । दि॒व्याः । उ॒त । वा॒ । स्रव॑न्ति । ख॒नित्रि॑माः । उ॒त । वा॒ । याः । स्व॒य॒म्ऽजाः ।
स॒मु॒द्रऽअ॑र्थाः । याः । शुच॑यः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥
याः । आपः । दिव्याः । उत । वा । स्रवन्ति । खनित्रिमाः । उत । वा । याः । स्वयम्ऽजाः ।
समुद्रऽअर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥
yā́ḥ ǀ ā́paḥ ǀ divyā́ḥ ǀ utá ǀ vā ǀ srávanti ǀ khanítrimāḥ ǀ utá ǀ vā ǀ yā́ḥ ǀ svayam-jā́ḥ ǀ
samudrá-arthāḥ ǀ yā́ḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁ
yāḥ ǀ āpaḥ ǀ divyāḥ ǀ uta ǀ vā ǀ sravanti ǀ khanitrimāḥ ǀ uta ǀ vā ǀ yāḥ ǀ svayam-jāḥ ǀ
samudra-arthāḥ ǀ yāḥ ǀ śucayaḥ ǀ pāvakāḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.049.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.16.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.120
- Devatā देवता
- 1, 2, 4: Apas; 3: Apas, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.